SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ २४१-२५३] द्वादश उत्साहः २९७ तस्या मध्येऽप्युदीर्याख्यां शकटोया॑भसंस्थितिम् । कृत्वा निषेद्धं तज्जीवान् क्षपकश्रेणिसवृतिम् ॥२४१ अपूर्वकरणे स्थित्वा गुप्त्याऽधिज्यं विधाय च । वीर्यचापं सुलेश्येष्वा घातयाणकुराकान् ॥२४२॥ - चतुर्भिश्च कुलकम् क्षिप क्रमेण मिथ्यात्वमिश्रसम्यक्त्वशूकरान् । प्रत्याख्यानाप्रत्याख्यानैणांश्च तेनेपुणैकदा ॥२४३ गती तिर्यङनारकयोरानुपू? तथा तयोः ।। अपर्याप्तमेकद्वित्रिचतुरिन्द्रियजातिकाः ॥२४४ स्थावरातपमुद्योतसूक्ष्मसाधारणानि च । स्त्यानद्धित्रिकमष्टानां शेष चैकेषुणा क्षिप ॥२४५ ततो नपुंसकं वेदं स्त्रीवेदं च मृगावथ । हास्यादीन् मृगदारांश्च षडेकेनेषुणा क्षिणु ॥२४६ ततः पुरुषवेदं च कुरङ्गं हिन्धि पत्रिणा । ततः संज्वलनक्रोधमानमायामृगान् क्रमात् ॥२४७ त्रिखण्डं लोभसारङ्ग कृत्वा द्वे शकले दले । खण्डं तृतीयं संख्यातान् खण्डान् कृत्वा क्षणात् क्षिप ॥२४८ द्वाभ्यां क्षणाभ्यामप्राप्तः केवलं प्रथमे क्षणे । घातय प्रचलानिद्रे देवगत्याऽऽनुपूर्विके ॥२४९ वैक्रियं तीर्थमाहारानादिसंहननानि च । संस्थानकं चान्यतरद् यौगपद्यात् त्रयोदश ॥२५०॥ युग्मम् क्षणेऽन्तिमे ज्ञानविघ्नदशकं . दृकचतुष्ककम् । हत्वैकबाणेन भज केवलं विजयश्रियम् ॥२५१ भवौपग्राहिकर्माणि फेरून् दुःशकुनोपमान् । तिरस्कृत्याक्षयसुखं मोक्षमाप्नुहि धीनिधे ॥२५२ इति हत्वा मत्या निर्दयवृत्त्या चान्तरारिपशुवृन्दमिति । शिवपदमचिरादपि गच्छ सुखादपि हित्वा मलमयमङ्गमिति ॥२५३ Lila.-836 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy