________________
लीलावतीसारे
[संनिशम्येति कुमारेण प्रोचेऽपाठ्यद्य केन भोः ।। मङ्गलपाठकैरूचे केनाप्यप्रेक्ष्यवर्मणा ॥२२८ ततः कुमारः प्रगेऽपि मृगयायां गतो रयात् । समायातश्च मध्याह्ने मज्जितो बुभुजे च सः ॥२२९ विलिप्य चान्तताम्बूल आस्थाने तस्थिवान् मुदा । क्षणेऽत्र स पुनर्देवः समागान्नटपेटकी ॥२३० दृष्ट्वा कुमारो विज्ञप्तस्तेन प्रस्ताववेदिना । प्रेक्षस्व प्रेक्षणं देव कुमारेणाप्युरीकृतम् ॥२३१ ततश्च - रङ्गभूः सज्जयाञ्चक्रे गृहीता वर्णकादयः । आतोद्याधुपकरणं सर्व च प्रगुणीकृतम् ॥२३२ प्रतिष्ठितः पूर्वरङ्गो नृत्तं गीतं च निर्मितम् । शूरदेवनटो रङ्गाद् गातुमेवं प्रचक्रमे ॥२३३ यावन्न चक्रे मृगया मुनिकेवलिनिर्मिता । तावन्न प्राप्यते स्वामिन् शर्म दुःखोमिवर्जितम् ॥२३४ तदेव तन्मनीभूयान्तरङ्गां मृगयां शृणु । हृवृत्तिरित्यटव्यस्ति विकल्पोरुतरून्नता ॥२३५ मिथ्यात्वाद्या निवसन्ति किरयस्तत्र भूरयः । दर्शनज्ञानावरणमोहान्तरायका मृगाः ॥२३६ वेदनीयनामगोत्रायूंषि गोमायवस्तथा । कार्मणवर्गणाशष्पचर्वणानर्वविग्रहाः ॥२३७ नानाविकल्पद्रुषण्डच्छायास्वाबद्धगोष्ठयः । निरीतयश्चिरायुष्का नित्यमेवाकुतोभयाः ॥२३८॥ त्रिभिविशेषकम् तत्र याहि त्वमादाय जीववीर्य महाधनुः । परिधाय च चारित्राड्डनं सर्वाङ्गमण्डनम् ॥२३९ पृष्ठे बद्ध्वा सुलेश्येषुधर्मध्याननिषङ्गकम् ।।
शीलाङ्गसहस्रव्याधैर्हति परिवेष्ट्य च ॥२४० २३५.४. 'तरुन्नता. २४०.४. वृत्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org