________________
२१६-२२७] द्वादश उत्साहः
२९५ निरुञ्छितः कुमारोऽथ पापमित्रैर्मुहुर्मुहुः । स्तुतश्च शूकराखेट मेने शौर्यकषोपलम् ॥२१६ ततश्च - पितृवाक्यं राज्यकार्य पुरमन्तःपुरं तथा । कुमारो गणयामास स्वशरीरसुखं च न ॥२१७ दिवानिशमसौ किन्तु प्राणिसंहारकारिणीम् ।
मृगयां रचयामासाजन्माप्याखेटिकः किल ॥२१८ यतः - क्रीडेति प्रथमं कुतूहलरसैर्बध्नाति मूलं मना
गुत्कर्षादपकर्षतश्च तदनु प्रौढिं परां गच्छति । आक्रम्य क्रमतः क्रियान्तरमथ प्राप्तोदयं बाधते
वृद्धं हि व्यसनं शनैः सुमनसामप्येककार्यायते ॥२१९ क्षणेऽत्र भोः सिंहराजप्रतिबोधक्षणोऽधुना । विमृश्येति शूरसाधुदेवस्तत्र समाययौ ॥२२० प्रातर्मङ्गलवेलायामदृश्यं च पुरम्बरे । भाद्राब्दसोदररवः प्रारेभे पठितुं यथा ॥२२१ हन्ति यः शरणायातांस्तस्य का देव शूरता । कथं न शरणायाता ये तव क्ष्मातलं श्रिताः ॥२२२ निरायुधान् मातलस्थान् वर्महीनान् निहन्ति यः । घोरायुधो हयारूढो वर्मितो वीरताऽस्य का ॥२२३ धिक् पौरुषं विक्रम धिग् दाक्ष्यं धिग् [धिक्] च शेमुखीम् । कान्दिशीकान् शगालादीन् नरकेसरिणां ध्नताम् ॥२२४ तिरश्चा शूकरेणापि शस्त्रहीनेन भीरुणा । युद्धे पलायते यस्तु भटवादोऽस्य कीदृशः ॥२२५ नृसिंह पूर्व पुंभिस्ते नेदमाचरितं क्वचित् । पापात् तदस्माद् विरम रमस्व जिनसंयमे ॥२२६ स्वकृतं दुष्कृतं भोग्यं नात्र रको न भूपतिः ।
विरमास्मात् ततः पापात् किं बहूक्तैः कृतीश्वर ॥२२७ २२७.४. कृतीश्वरः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org