________________
२९४
लीलावतीसारे
[२०२-२१५ कलाचार्येण परिणायितं द्वासप्तति कलाः । त दृष्ट्वा कृपणंमन्यो मन्येऽभूज्जयशेखरः ॥२०२॥ त्रिभिर्विशेषकम् श्रीकुमारावतंसाय श्रीप्रासादावतंसकम् । द्वात्रिंशद्वल्लभावासपरिक्षिप्तं पिता ददौ ॥२०३ तत्र द्वात्रिंशता दारैरुदारैविलसन्नसौ । ताराभिः सप्तविंशत्या श्लिष्टं तारेशमत्यगात् ॥२०४ यौवनेन वयोराज्ञा युवराज कृतं पुरा । . तं मृष्ट्वा यौवराज्येऽपि स्थापयन्नातुषन्नृपः ॥२०५ कुमारः समरसेनो राजपाट्यां कुतूहली । महीयसाऽश्वथट्टेन जगामोद्यानमन्यदा ॥२०६ तत्राश्वरबुरशब्देन भीतभीतोऽथ जम्बुकः । । पलायमानो ददृशे कुमारेणाविदूरतः ॥२०७ ततश्च यौवनोन्मादान्निविवेकतया हृदः । तद्वधाय कुमारेण मुमुचेऽश्वोऽतिवेगतः ॥२०८ स चिरं खेदितो मृत्युभीत्या नश्यन् बनान्तरे । नृसिंहेन हहा तेन शल्येनाघानि जम्बुकः ॥२०९ प्रशंसितः पापमित्रैः कुमारोऽथ प्रहर्षुलः । यदा तदा कुमित्रोक्त्या क्रीडया खेटकं व्यधात् ॥२१० दृष्ट्वा वराहमन्येचुर्दुर्धरं सिंहपोतवत् । कुमारः प्रेरयामास तुरङ्गमममुं प्रति ॥२११ पलायतेऽभ्येति वोच्चैबिभेत्युभेषयत्यपि । कातरश्च प्रवीरश्च म्लेच्छवच्छूकरोऽभवत् ॥२१२ कुमारस्तु तस्य पृष्ठं कथञ्चन मुमोच न । प्रजहार च तं कोलं कोऽलं तिर्यग्नरं प्रति ॥२१३ प्रहतेनापि तेनाश्वपदोऽच्छेद्यत दंष्ट्रया । म्रियमाणो मारयते कातरोऽपि हि शूरवत् ॥२१४ छिन्मांहिस्तुरगो वेगान्निपपात महीतले ।।
कुमारस्तत उत्फल्य तुरङ्गान्तरमाश्रयत् ॥२१५ २०५.१. राजा. . २०८.३. तद्वाधाय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org