SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ २६३ ९८८-२०१] द्वादश उत्साहः तच्छशास विशामीशो नाम्ना श्रीजयशेखरः । महाहवे महाबाहोर्यस्येव जयशेखरः ॥१८८ प्रतापतपनो यस्य चक्र परमहः क्षितौ । निराचक्रे च यदसौ तदहो कौतुकं महत् ।।१८९ देवीमधुव्रतीव्रातकाग्यसौभाग्यमञ्जरी । बभूव तस्य देवस्य देवी भुवनमञ्जरी ।।१९० लज्जाऽतिसज्जा सध्रीची प्रोन्मीलच्छीलकेलिभिः । यस्याः प्रसाधयाञ्चक्रेऽलंचक्रे च वपुलताम् ॥१९१ सुखाम्भोधिविगाहिन्यास्तस्याः शुक्तेरिवोदरे । जयशासनदेवात्मा मुक्ताभः सोऽवतारमैत् ।।१९२ तदा च कात्तिकज्योत्स्नीशेषेऽशेषे हितावहम् ।। मुखे विशन्तं भास्वन्तं वीक्ष्य भूपस्य देव्यवक् ।।१९३ राज्ञा च स्वप्नविज्ञैश्च तत्स्वप्नास्वप्नभूरुहः । फलं न्यवेदि मार्तण्डप्रचण्डतनयोदयः ॥१९४ सम्पूर्णेष्वङ्गेष्वशेषेषु मासेषु च निरामया । तनयं सुषुवे देवी प्राचीवाहिमरोचिषम् ॥१९५ महीभुजाऽथ स्वराज्याभिषेकोत्सवतोऽधिकः । पुरे विरचयाञ्चक्रे पुत्रजन्ममहोत्सवः ॥१९६ जन्मोत्सवात्युत्सवेन पितृष्वस्रा जयश्रिया ।। पुत्रस्य समरसेन इति नाम विनिर्ममे ॥१९७ धात्रीभिरिव राज्ञीभिर्नृपैलिधरैरिव । कुमारः शिश्रिये रूपश्रियेव विनयश्रिया ॥१९८ क्रमेण च कलाचार्यस्तं कलाभिरपूरयत् । निष्कलाभगौरवेण कलाचार्य त्वहो नृपः ॥१९९ त्रिलोकौणसौन्दर्यसारमादाय यत्नतः । यासां सृष्टिः सृष्टिकृता मन्ये निरुपमा कृता ॥२०० महासामन्तकन्यास्ताः चतुरष्टाऽपि चैकदा । विवाहयन् कुमारेण विच्छAण महीयसा ॥२०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy