________________
૨૨
लीलावतीसारे
[१७४-१८७ कुरु प्रतिज्ञामत्रार्थे येन स्यान्नो मनोधतिः । सोऽवगध्रुवं करिष्येऽदो मैवात्रार्थ विषीदत ॥१७४ आसन्नस्य च नासन्नसिद्धिसङ्गोत्सवश्रुतेः । विषादानन्दौ बिभ्राणा वार्धिवद् गरलामृते ॥१७५ दशापि देवास्ते प्राप्ताः स्वविमानेषु वेगतः । विमानदेवीरत्नादि शोचन्ति स्म मुहुर्मुहुः ॥१७६॥ युग्मम् चिन्ताचान्ताः करतल्पशायिमुखाम्बुजाः । क्षणं क्षणं वर्षमिव यावन्निर्वाहयन्ति ते ॥१७७ तावद्वाताहतदीप इव यद्वेन्द्रजालवत् । जयशासनर्षिदेवो दधेऽकस्माददर्शनम् ॥१७८॥ युग्मम् इतश्चात्रैव भरते मनीषितसुरद्रुमः । समुद्रवेलोपनीतरत्नरोचिविभास्वरः ।
॥१७९ . उद्दण्डपद्मषण्डाढयसरसीकुलसङ्कुलः चम्पकाशोकमाकन्दपुन्नागोद्यानमालितः ॥१८० नालिकेरीनागवल्लीद्राक्षामण्डपमण्डितः एलालवङ्गकक्कोलकर्पूरवनबन्धुरः
॥१८१ चन्दनोन्मेदुरामोदामोदिताशेषदिङ्मुखः । नाम्ना मलयविषयो देशो देशोत्तमोऽस्ति भोः ॥१८२॥
चतुभिः कलापकम् यत्र ग्रामः स नो यत्र निपानाः पञ्चसप्त न । न तन्निपानं यत् पञ्चसप्तदेवकुलश्रि न ॥१८३ न तद्देवकुलं यत्र व्याख्योर्व्यः पञ्चसप्त न । व्याख्योर्वी सा न या पञ्चसप्तच्छात्रशतान्विता ॥१८४ न सच्छात्रोऽस्ति यः पञ्चसप्तशास्त्राणि नाबुधत् । न तच्छास्त्रं यत्र पेतुः शलाकाः पञ्चसप्त न ॥१८५ तत्र च्छत्रमिवोन्ननं कदं सर्वककुश्रियाम् । दत्तारीमाङ्कुशावर्त कुशावर्तमभूत् पुरम् ॥१८६ मुद्रयन्ते सरसां पद्माः पौराणां यत्र नो पुनः । दण्डो विज़म्भते राज्ञां नागराणां न जातुचित् ॥१८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org