SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ १६१-१७३] द्वादश उत्साहः धुरि कुरङ्गमदाविलवक्षसा सुपरिरभ्य वृतोऽसि शिवश्रिया । इति किलाम्बुदसोदरदीधितिस्त्वमसि राजिमतीविमुखस्तथा ॥१६१ प्रतिदिनं विषमायुधसंकथाप्रथनहेतुतया नरकावहा । समुचितं खलु राज्यमतिस्त्वया समममुच्यत राजिमती च सा ॥१६२ गतवताऽऽयुधधामनि वादिते कुतुकतो भवता हरिवारिजे । यदभवत् किल शब्दमयं जगद्भुवनशब्दमयत्वगतिस्ततः ॥१६३ विततमूलकदम्बकमोहसंज्ञितमहत्तमतालमहीरुहः । मदनमस्तकसू चिविसूत्रणात् जिनपते भवतैव विशोषितः ॥१६४ जिनशिवाङ्गजशक्तिधरं स्फुटं घनसुहृत्कमनीयमहारुचे । ननु कुमारवरेण सुतेजसा यदि परं भवता व्यततार कः ॥१६५ शिवपुरीपथसृष्टिकरो भवांस्त्रिजगतीजनरक्ष्णविचक्षणः ।। सकलदुष्कृतसंहृतिकृच्च तन्नहि परं पुरुषान्तरमिष्यते ॥१६६ नमदमर्त्यशिरोमणिमालिकाद्युतितरङ्गवतीविमलक्रमः । सुभगसीमतया किल निवृतिप्रियतमैकपते भवते नमः ॥१६७ इति नवस्तवनोपदयाऽनया यदुनरेन्द्रकुलाम्बरभास्वतः । जिनपतेरमृतेशितुरामृतीं श्रियमिता इव ते द्युसदोऽभवत् ॥१६८ भगवन्तमनुज्ञाप्यासित्वा सिंहासनेषु ते । एकैकबाहोः प्रत्येकं द्वात्रिंशत् पात्रिका व्यधुः ॥१६९ ततश्च - वीणावेणुमृदङ्गशङ्खतिलिमाढक्काहुडुक्कादिकान् बिभ्राणैश्चतुरष्टभिः सुरुचिरैः स्त्रीपुंसपात्रः पृथक् । श्रीनेमेः पुरतस्त्रिलोकजनताचेतश्चमत्कारकं कृत्वा नाट्यविधिं प्रणम्य च पुनः पप्रच्छुरेते प्रभुम् ॥१७० प्रभो कदा नश्च्यवनं क्षेत्रेऽवतरणं क्व च । कुतः सम्बोधनं सिद्धिः कदेति प्रतिपादय ॥१७१ मयि सिद्धे मम तीर्थे दिवश्युत्वाऽत्र भारते । सूरात्मदेवात् सम्बुद्धाः सेत्स्यथेत्यवदत् प्रभुः ॥१७२ ततस्तुष्टाः समोत्थायं सूरदेवामरं परे । नवापि विनयादू चुर्वयं बोध्यास्त्वयाऽनघ ॥१७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy