________________
.२९०
लीलावतीसारे
अष्टोत्तरशतश्लोक मयैर्नवनवैः
स्तवैः ।
भक्तिवल्लीप्रसवैर्गम्भीरैस्तारमस्तुवन् ॥ १४८ ॥ त्रिभिर्विशेषकम् तदन्विमे स्तूपचैत्य इव माणवनामनि । स्तम्भे तीर्थंकरास्थीनि स्थितान्यानर्चुरजसा ॥ १४९ धर्मानामधेयायां सभायां सपरिच्छदाः ।
जय वर्धस्व जीवेत्याशास्यमानाः पुरः सुरैः ॥१५० गत्वा सर्वेन्द्रियग्रामसुखं प्रत्यूषवातवत् ।
ते नानाभनि सङ्गीतं चिरकालमचीकरन् ॥ १५१ ॥ युग्मम् अन्यदा देवराजस्य सर्वावसरसंसदि । मिलितानां दशानामप्येषां त्रिदिववासिनाम् ॥१५२ मिथोदर्शनतो जज्ञेऽनुरागो निरुपाधिकः । प्रयुक्तावधितश्चाभूत् पूर्ववन्मैत्र्यमुत्तमम् ॥ १५३॥ युग्मम् ततः सभाया उत्थाया मिलन्नेकत्र ते समे । मिथस्तुल्यर्द्धिदृष्ट्या च परं सन्तोषमूहिरे ॥ १५४ ततः कदाचिद्वापीषु तेऽक्रीडन् कलहंसवत् । उद्यानेष्ववित् पुष्पकेलीं तेनुः कदाचन ॥ १५५ कदाचनाद्रिशृङ्गेषु विलेसुस्ते मृगा इव । सरित्सु पूर्णपद्मासु कदाचिच्चक्रवा[क]वत् ॥ १५६ कदाचनाप श्रीनन्दीश्वरयात्रां वितेनिरे । जिनजन्मादिकल्याणमहांसि च कदाचन ॥ १५७ इत्यादिलीलां सुकृतफलबीजोपमां मुहुः । मिलितास्ते स्म कुर्वन्ति किलैकात्म्यमिवाश्रिताः ॥ १५८ यः श्रीशौर्य पुरेऽवतारजनुषी श्रीवताद्रौ पुन
र्दीक्षा केवलनिर्वृतीः समगमत् तस्यास्य नेमिप्रभोः । व्याख्यायां त्रिदशाः प्रमोदविवशा एते दशाप्यन्यदा
१५९.२. निवृतीः.
Jain Education International
[ १४८-१६०
वन्दित्वा भगवन्तमुक्तविधिना च्युत्यावधि ( ? ) तुष्टुवुः ॥ १५९ जयजगत्त्रयकल्पमहीरुह त्रिजगदचितपादपयोरुह | भवदवानलनिर्दलनाम्बुद प्रमदमन्दिरनेमिजिनेश्वर ॥ १६०
For Private & Personal Use Only
www.jainelibrary.org