SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३०२ लीलावतीसारे [३०९-३२२ कुमारः क्षणमात्रेण ददर्श नरकालयान् । परमाधार्मिकाहन्यमाननानाजनोच्चयान् ॥३०९ पृष्टः कुमारेण पुमान् भोः केऽमी घ्नन्ति निघणाः । के वा रटन्तो विरसं निहन्यन्ते वराककाः ॥३१० पुमानाह नाहमपि सम्यग जाने ततः सखे । गत्वा द्वावपि पृच्छावोऽथ गत्वा तावपृच्छताम् ॥३११ के यूयमिति तेऽप्यूचुः परमाधार्मिका वयम् । पुमानूचे क इमे च किं वेमान् हथ चौरवत् ॥३१२ परमाधार्मिकोऽवादीदेते ते नारकाः सखे । अयं च नरको येनामी हन्यन्ते च तच्छृणु ॥३१३ एतेन जग्धं देवस्वं तज्जिह्वा छिद्यतेऽस्य भोः । चैत्यार्चाविघ्नकृच्चैष कुम्भीपाकेन पच्यते ॥३१४ बिम्बाशातनया पाप उबद्धः शाल्मलीतरौ । उत्सूत्रभाषिणोऽस्यास्यं सीव्यते नृपनन्दन ॥३१५ साधुदाननिषेद्धाऽयं क्षुधातः स्वाङ्गमाद्यते ।। सङ्घस्य प्रत्यनीकोऽसावयोभ्राष्टेषु पच्यते ॥३१६ साध्वीगन्ता ज्वलदयः पुत्रीमालिङ्गयते बलात् । निमन्तुजन्तुहन्ताऽयं पाट्यते क्रकचेन भोः ॥३१७ मृषावाद्येष पिशुनः पाटितास्यो रटत्यलम् । स्तैन्यकार्येष छिन्नाङ्ग उद्बद्धः कण्टकिद्रुमे ॥३१८ अयं परस्त्रीभोक्ता चाश्लेष्यते शाल्मलीलताम् । महापरिग्रही त्वेष तप्तायोऽनसि योज्यते ॥३१९ रात्रीभोजी कुमारायं भोज्यतेऽशुचिपिण्डकान् । मधुमद्यपिबोऽसौ च प्रतप्तं पाय्यते त्रपु ॥३२० इति श्रुत्वा च दृष्ट्वा च चिन्तयत्येष राजसूः । केऽप्येते पुरुषाः प्रातःपाठकृन्नटबान्धवाः ॥३२१ पुनः स पुरुषः प्राह दृष्टं पापफलं सखे । सुकृतस्य फलं सम्यक् कुमारेक्षस्व सम्प्रति ॥३२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy