________________
लीलावतीसारे
[९५-१०८ विजयसेनराजर्षिनिपत्य पदपद्मयोः । क्षमयित्वा हृदन्तस्थं निनिन्देति सुदुष्कृतम् ॥९५ हा हा धिग धिग मम मनो त्वय्यध्यायदमङ्गलम् । अहहाहमधन्योऽत्र कलकः स्वकुलेऽभवम् ॥९६ श्रुतिः स्मृतीराजनीतिः सर्व वा विस्मृतं मम ।। यतस्त्वां स्वगृहायातं न्यजिघांसमनंहसम् ॥९७ पूर्वे पुमांसो मेऽकारिणोऽप्येयुषो गृहम् । आपदम्भोधिमग्नस्याप्युद्धारं परमं खलु ॥९८ मया नु तव राजर्षेर्देवसेव्यपदश्रियः । पापं तच्चिन्तयाञ्चक्रे येन स्याद् दुर्गतिः स्वसात् ॥९९ तत् प्रसीद प्रसीदाशु पुस्पाशे मयि पुंस्पते ।। त्वत्प्रसत्तिसुधाभिर्मे पापतापः प्रशाम्यतु ॥१०० अथावोचत राजर्षिर्मर्षितारिपरीषहः । संयमप्रतिपत्त्यैव प्रसन्नोऽहं जगत्यपि ॥१०१ विशेषतस्तु भवति भगवद्वचनोद्यते । तच्चिन्तितमिदं निन्द प्रायश्चित्तमुरीकुरु ॥१०२ गुरूपान्ते च तच्चक्रे सर्व सर्वसहापतिः । प्रसन्नोऽस्मै गुरुः श्राद्धधर्मचिन्तामणि ददौ ॥१०३ विजयसेनमनुराजमहर्षि विमलसेननृपतेर(१)रिताग्निम् । उपशमय्य विजहार सुधर्माऽप्यमृतदः पुरवरान्तरमारात् ॥१०४ ते सूत्रतोऽर्थतश्चाप्येकादशाङ्गयामधीतिनः । तपोर्णवस्य पारीणाः सर्वे गीतार्थतामगुः ॥१०५ इत्थं वरं चरित्राब्धिममृतश्रीनिबन्धनम् । ज्ञानेन्दुकौमुदीभार शमुल्लास्य सर्वतः ॥१०६ गुरून् विज्ञापयामासुराशु गत्वरमेव नः । वपुस्तस्मादनशनं प्रतिपद्येमहि प्रभो ॥१०७॥ युग्मम् व्याजहार गुरुः सौम्याः सम्यक संलिख्यतां वपुः ।
ततः संलेखनां गाढां ते दशापि वितेनिरे ॥१०८ ९५.२. निपत्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org