SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ २८७ १०९-१२२ ] . द्वादश उत्साहः अथाममत्वाः स्वाङ्गेऽपि सर्वभावेषु निःस्पृहाः । क्षमिताशेषसत्त्वाश्च प्रागदुष्कृते विगर्हिणः ॥१०९ गुरुदत्तालोचनाश्च सुकृतस्यानुमोदकाः ।। चतुःशरणयुक्ताश्चानशनं प्रतिपेदिरे ॥११०॥ युग्मम् परमेष्ठिनमस्कारध्यानधाराधिरोहिणः । सर्वे मासिकभक्तेन विधिना ते विपेदिरे ॥१११ ततश्च मुनिराजास्ते महापुण्यरथस्थिताः । सौधर्मकल्पे प्रत्येकं विमानेषु क्षणादगुः ॥११२ ततः स्वस्वविमानेषूपपाद शयनान्तरे । उत्पेदिरे धुगङ्गायां सुवर्णकमला इव ।।११३ समानचतुरस्राङ्गाः सप्तधातुमलोज्झिताः । नवनीतमृदुस्पर्शाः प्रभापूरितदिग्मुखाः ॥११४ विज्ञानपारदृश्वानश्चावधिज्ञानशालिनः । महावीर्या वज्रकायाः सम्पूर्णशुभलक्षणाः ॥११५ अणिमादिमहर्याढ्या अचिन्त्यमहिमालयाः । विमानेशा इन्द्रसामानिकास्ते जज्ञिरे सुराः ॥११६॥ त्रिभिर्विशेषकम् अन्तर्मुहूर्तास्त्रिदशीभावमासाद्य ते सुराः । देवदूप्यं चापनीयोपविष्टा ददृशुर्मुदा ॥११७ विमानमप्रतिमानं स्वर्णरत्नमणीमयम् । इतस्ततः संपततः सन्ततं च दिवौकसः ॥११८ तद्विभूति चानुभूतेतरां वीक्ष्यातिविस्मयात् । स्फाराक्षास्ते किमिदमित्यन्तः सम्भ्रममूहिरे ॥११९॥ युग्मम् अस्मिन्नवसरे तत्तकिङ्करास्त्रिदिवौकसः । स्वं स्वं स्वामिनमुत्पन्नं वीक्ष्योद्यत्प्रमदोर्मयः ॥१२० . प्रतिनादेन ककुभः कुर्वतः प्रतिदुन्दुभीन् । दुन्दुभीन् वादयामासुः प्रातस्तूर्यसहोदरान् ॥१२१॥ युग्मम् प्रभो जय जय स्वामिन् नन्द नन्द क्षतावधि(?) । त्वमस्माकमनाथानां नाथः समुदगाश्चिरात् ॥१२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy