________________
२८५
८२-९४]
द्वादश उत्साहः दध्यौ च सैष मे वैरी येन नामास्म्युपद्रतः । शीर्षच्छेद्यस्तदस्त्वेष प्रकट छन्नमेव वा ॥८२ इति दुर्ध्यानमेतस्य मनःपर्यवसंविदा । गुरोनिवेदयाञ्चक्रे गुरुश्चैवं तमब्रवीत् ॥८३ अपि धर्मार्थमारम्भे पापा वल्गन्ति पाप्मनि । दौर्गत्याधिव्याधिपात्रं ते स्युरत्र परत्र च ॥८४ गुरुणेत्युपदिष्टोऽपि राजा नाबुद्ध रोषणः । ततो . विजयसेनर्षिगुरूनेवं व्यजिज्ञपत् ।।८५ अस्योपकारमीक्षध्वे चेत् तद्ब्रत विशेषतः । इति तस्य गिरा राज्ञः क्रोधाग्निः शतहेत्यभूत् ॥८६ प्रभुर्भाद्रपदाम्भोदो ववर्ष वचनामृतम् । राज्ञो विमलसेनस्य क्रोधोषर्बुधशान्तये ॥८७ साहस्राणां सहस्रं यः सङ्ग्रामे दुर्जयं जयेत् ।। स जयत्वेकमात्मानमेषोऽस्य परमो जयः ॥८८ किञ्च - सुरासुरशिरोरत्नचुम्बितांहिसरोरुहाम् । साधूनामपकारेच्छुर्नरकान्धौ पतेत् ध्रुवम् ॥८९ सुरेन्द्रकृतसान्निध्यान साधून् द्रोग्धुं क्षमेत कः । पापस्तु तत्परीणामाद्भवाम्भोधौ निमज्जति ॥९० भूपाल तदलं कृत्वा क्रोधमत्र महात्मनि ।। रजः क्षिप्तं लगेन्नेन्दौ किन्तु क्षेप्तरि निश्चितम् ॥९१ अहो भगवता ज्ञातं हहा दुश्चिन्तितं मम । इति भूपस्त्रपाभाराद् वेष्टुं भुवि किलैहत ॥९२ पुनर्भगवतोचेऽसौ सौम्यानेनैव हेतुना । इहायाम तन्महर्षिममुं क्षमय तातवत् ॥९३ एतद्गुरूक्तमाकर्ण्य स सकर्णशिरोमणिः ।
हृत्पश्चात्तापतप्तं नु सिञ्चन् बाष्पभरैर्नृपः ॥९४ ८७.३. राजो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org