SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २८२ लीलावतीसारे [४१-५३ स्वस्य प्रादुःकर्तुमुच्चैरथ निष्क्रमणोत्सवम् । कोशाम्ब्यन्तेऽभितस्तेनूरथ निष्क्रमणोत्सवम् ॥४१ विश्वेऽप्यभयदानस्यारम्भं ज्ञापयितुं किल । विष्वक् प्रवर्तयामासुरभीदानं प्रदानतः ॥४२ अथ दानप्रवाहेण प्रदानमिव शिक्षयन् । पश्चाद्देशात् क्रमोच्चैस्त्वाद् यथोत्तरगुणस्थितिम् ॥४३ अनुल्वणाक्षतां शंसंस्तिमिताक्षतया ध्रुवम् । सलीलगतिगामित्वादद्भुताचरितानि वा ॥४४ सङ्कोचितकराग्रत्वात् ख्यान् सङ्कोचं परिग्रहे । चलाचलैः कर्णतालैविश्वचञ्चलतामिव ॥४५ खटिकाश्वेतितत्वाच्च शुक्लध्यानमिवादिशत् ।। आवेदयन् मङ्गलानि मन्ये गुलुगुलारवैः ॥४६ शङ्गारितः शैलतुङ्गो जयमङ्गलकुञ्जरः । भूपाय सज्जयाञ्चक्रे श्रीसंयमकरीन्द्रवत् ॥४७॥ पञ्चभिः कुलकम् स्नातालिप्तो देवदूष्यमाल्यभूषणभूषितः ।। तमध्यासामास राजकुञ्जरो राजकुञ्जरम् ॥४८ मू/परिचरभाग्यसुभगातपवारणः दिनचारार्थसेविद्विपक्षीज्योत्स्नाभचामरः (?) ॥४९ भरतेशादिवैराग्यभनयभङ्गुरपाठकैः उत्कीर्यमानासमानकीर्तिमङ्गलपाठकैः ॥५० पुरतःप्रवाद्यमाननान्दीनादितदिङ्मुखः तारतारेद्विजमन्त्रैस्त्रासितामित्रमन्त्रितः चतुर्दिगन्ताभयकृच्चतुरङ्गवरूथिनीम्। परीतश्रीजयसिंहसामन्तामात्यसेवितः ॥५२ प्रेक्षाप्रतीक्ष्यैर्विद्वद्भिः श्लाघ्यमानो मुहुर्मुहुः । सौधात् पुरे परिपाट्यै प्रतस्थे पृथिवीपतिः ॥५३॥ पञ्चभिः कुलकम् ४६.१. श्चेतित°. ४९.४. 'त्स्ना भाचमर, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy