SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ २८३ ५४-६७] द्वादश उत्साहः ततः प्रतिपदं स्वर्णमर्थिभ्यः पुण्यवद्ददत् । प्रतिहट्टं प्रतिगृहं प्रतीच्छन् नागरार्चनाम् ॥५४ प्रतितीर्थ प्रतिचतुर्हदृ सङ्गीतकक्षणे । कल्पद्रुम इवाभीष्टं यच्छन् सङ्गीतकारिणाम् ॥५५ पदे पदे कौतुकिभिर्दर्शितानेककौतुकः ।। पुरःपठभट्टथट्टैः प्रोक्षुप्टबिरुदावलिः ॥५६ जयशासनमन्च्याद्यैः दीक्षासरभसाशयैः । वशामतल्लिकारूढैः स्वर्णधाराधरैः सह ॥५७ धर्मान्तरेभ्योऽर्हद्धर्मस्यात्यन्तोत्कर्षसिद्धये । अपरेषां च भव्यानां दीक्षाकाङ्क्षाऽभिवृद्धये ॥५८ राधे शुक्लचतुर्थी श्रीकौशाम्व्यां पुरि सर्वतः । राजा श्रीविजयसेनः परिबम्भ्रम्यते स्म सः ॥५९॥ षड्भिः कुलकम् मोहारिसंहारयुधे किल वीरजयन्तिकाम् । पञ्चापि ते स्वस्वधाम्नि वीररात्रिं जजागरुः ॥६० स्नात्वाऽऽलिप्य प्रगे क्षौममुक्तालङ्कारभासुराः । श्वेतपुष्पैः स्रग्विणश्च मूर्तधर्ममया इव ॥६१ अनुत्तरविमानानामिवावतरदर्शिकाः । शिबिकाः पुंसहस्रेण वाह्याः पञ्च समाश्रिताः ॥६२ छत्रच्छलादवाइ(?)सिद्धिशिलया त्वरया रयात् । चामराभ्यां प्रत्ननूत्नपुण्याभ्यां च किलान्विताः ॥६३ पुष्पवृष्टीर्लाजवृष्टीराशीर्वृष्टीश्च सर्वतः । सादरं प्रतिगृह्णानाः पौरनारीसमीरिताः ॥६४ दीक्षायैवमप्येवं स्यामेत्यार्यकृतस्पृहाः ।। दानं ददानाः पूर्णाशं पुष्करावर्त्तमेघवत् ॥६५ मरुत्प्रेङ्खोलितलतापल्लवैर्भङ्गगुञ्जितैः । कोकिलाकोमलारावैः किलाह्वातुं समुद्यते ॥६६ वसन्तऋतुराजस्य लीलासिंहासने वने । नन्दने ते क्रमात् प्रापुः श्रीसुधर्मपदान्तिकम् ॥६७॥ सप्तभिः कुलकम् ६४.३. प्रतिगृह्णानाः . ६६.३. 'लारापैः : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy