________________
२७-४०]
२८१
द्वादश उत्साहः जगाद नृपतिर्भो भोः सामन्ताद्या महाशयाः । अयं श्रीमान् जयसिंहः सुस्वामी वः प्रतिष्ठितः ॥२७ वयं पुनर्निरवद्यां पद्यां श्रीमुक्तिपत्तने ।। प्रतिपत्स्यामहे दीक्षां सुधर्मस्वामिनोऽन्तिके ॥२८ युष्मन्मध्येऽपि यः कोऽपि दिदीक्षिषुरुपैतु सः । यद्गृहे तु न निर्वाहस्तस्य दद्मो मनीषितम् ॥२९ श्रीजयसिंहस्तूचेऽथ हे वत्स त्वमियच्चिरम् । परस्कन्धाधिरूढोऽस्थास्त्वत्स्कन्धेऽरोप्यथाऽखिलम् ॥३० तदन्तरारिषड्वर्ग विजयेथा दिवानिशम् । गृहे हि वश्ये बाह्यानां सम्भाव्येतापि वश्यता ॥३१ विजयश्रीपरीरम्भहेतून् सेतून् रणार्णवे । सामन्तानमितौजस्कान् मन्यस्वामून् स्वबाहुवत् ॥३२ चतुर्धा धिषणाधारान् सदाचारधुरन्धरान् । स्वस्वान्तवदमात्यांश्च मन्येथाः सर्वकर्मसु ॥३३ राज्यस्य साङ्गोपाङ्गस्य सर्वसम्पन्निबन्धनम् । स्वकुक्षिमिव रक्षेस्त्वं पौरीर्जानपदीः प्रजाः ॥३४ श्रीजयसिंहराजोऽथ विनयी नृपमब्रवीत् । यदादिशति तातस्तत्तीर्थशेषेव मूर्थिन मे ॥३५ अथ श्रीविजयसेनः सामन्ताद्यानुपादिशत् । निधा[नमिव कल्प-दुरिव चिन्तामणीव वा ॥३६ परमाप्तवत् परमतत्त्ववत् परमात्मवत् । जयसिंहमहाराजः समाराध्यो दिवानिशम् ॥३७॥ युग्मम् तेऽपि विज्ञापयामासुः स्वाम्यादिष्टमिदं हि नः । हृत्पद्मकोशे किञ्जल्ककमलां कलयिष्यति ॥३८ इतिनिर्मातनिःशेषैहिककृत्यकदम्बकः । अथामुष्मिककृत्येषु मनो व्यापारयन् नृपः ॥३९ राजादेशाद् व्रतारम्भे प्राचीनमिव मङ्गलम् । चैत्येष्वष्टाह्निकां चक्रुः श्रीजयशासनादयः ॥४०
Lila.-36
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org