SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २८० १४.४. सहा. Jain Education International लीलावतीसारे हीनाचारपरीहारः उत्तरोत्तरनिर्मेरगुणश्रद्धानमन्वहम् ॥१३ इति शीलमहावर्मवर्मिताः सत्त्वशालिनः । अमुं भवप्रत्यनीकं महानीकं जयन्त्यहो ॥ १४ ततः श्रीविजयसेन राजमुख्यैः शिवोन्मुखैः । गुरुर्विज्ञापयाञ्चक्रे चक्रेशः शीलशालिनाम् ॥१५ भगवन् सर्वमेतन्नो भाति युष्मत्प्रसादतः । प्रभो प्रसन्नदृष्टीनां गुणा अनुचराः इय विद्म वयं तावदस्माकमधुना खलु ॥ १६ प्रभो । महापुरुषदृष्टान्तैतायोत्तिष्ठते मनः ॥ १७ कालान्तरे तु यत् किञ्चिद् भावि तद् विद्म नो वयम् । किञ्च योग्यायोग्यतां नो बुध्यध्वे यूयमेव हि ॥ १८ व्याजह्रे भगवान् सौम्याः कल्प इत्येवमीरितम् । जागर्ति योग्यताऽवश्यं भवतां भवतान्तिहृत् ॥ १९ प्रमोदमेदुरे राजादिभिर्व्यज्ञप्यत प्रभुः । सिद्धचैकलग्नं कं लग्नं प्रसादय दयानिधे ॥२० प्रत्युवाच प्रभुरिहागामिन्यां पञ्चमीतिथौ । वैशाखशुक्लपक्षस्य विलाससरसी (१) ॥२१ प्रभोऽस्त्वेवमिति प्रोच्य प्रभुं नत्वा च भक्तितः । श्रीमद्विजयसेनाद्याः सर्वे प्रविविशुः पुरीम् ॥२२ सामन्तामात्यसम्मत्या जयसिंहं स्वनन्दनम् । नन्दनं सद्गुणद्रूणां राजा राज्येऽभ्यषिचत ॥ २३ राजादिष्टाश्च मन्त्र्याद्याः स्वं स्वं धौरेयमङ्गजम् । स्वकुटुम्बधुरा सर्वधुरीणं स्रागतिष्ठिपन् ॥ २४ राजा विजयसेनोऽथ प्रतीहारैरहवत् । सामन्तान् मन्त्रिणः सर्वान् पौरान् जानपदानपि ॥ २५ समैरुर्मरुद्वेगात् ते च प्राभृतपाणयः । मुक्त्वोपदां नृपं नत्वा सन्निषेदुर्यथौचिति ॥ २६ प्रवराचारसेवनम् । For Private & Personal Use Only [ १३-२६ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy