________________
द्वादश उत्साहः
अथ श्रीविजयसेनमुख्याः पञ्चापि सद्धियः । सुधर्मस्वामिनं विज्ञापयामासुः कृताञ्जलि ॥१ स्वामिश्चतुर्गतिव्यूहैः सुदुर्भेद्यात् सुरासुरैः ।। रागद्वेषमहामोहदण्डाधिपतिभीषणात् ॥२ हिंसाद्यतिरथात् कामक्रोधमुख्यमहारथात् । हृषीकवर्गनासीरमहावीरभयक्करात् अस्माद् भवरिपोर्भीताः श्रिता युष्मत्पदाम्बुजम् । शीलेन संवर्मयास्मान् येनैतं विजयामहे ॥४॥ त्रिभिर्विशेषकम् भगवानाह युक्तं वः श्रीशीलं वर्म किन्त्विह । महाव्रताः पञ्च पञ्च मेरुतोऽपि हि दुर्वहाः ॥५ स्वाङ्गेऽपि मूर्छाविच्छे दो रात्रिभुक्तिविवर्जनम् । द्विचत्वारिंशिदोषत्यग्भोज्यमाहार्यमयपि ॥६ गुप्तिसमित्यष्टकं च धार्य नित्याप्रमादिभिः । द्रव्याद्यभिग्रहा नाना प्रतिमा द्वादशापि हि ॥७ केशलोचो भूमिशय्या यावज्जीवममज्जनम् । नित्यं गुरुकुले वासस्तनौ निःप्रतिकर्मता ॥८ भवप्रत्यर्थ्य भिमरसोदराकारधारिणाम् । परीषहोपसर्गाणां जयनं चावधानतः ॥९ अष्टादशश्रीशीलाङ्गसहस्रव्यूहमध्यतः अहर्निशमवस्थानं छिद्रभङ्गविवर्जनम् ॥१० विकथागौरवत्यागात् स्वाध्यायध्यानपूरणम् । वैयावृत्त्यतपोमैत्र्यादिषूत्तमुनिदर्शनम्
॥११ प्रपाल्यमिच्छाकारादि प्रतिलेखादिकं तथा ।
समाचार्य सदा धार्य धैर्यमापत्सु सर्वतः ॥१२ ४.४. येनेतं. ११.४. मनि'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org