SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३७८ लीलावतीसारे तद्बीजं फलितं चेति सत्यं चैतदजायत । महाजनविरोधेन कुञ्जरः प्रलयं गतः ॥५०७ कुमारोऽमरसेनोऽथ जज्ञे वसुमतीपतिः । क्रमविक्रमरोचिष्णू रामराज्यमपालयत् ॥ ५०८ स च रौद्रध्यानभूताधिष्ठितोऽमरकेतुराट् । घर्मायां भीष्म घर्मायामन्ध्यायुर्नारकोऽभवत् ॥५०९ तत्र सोवा महादुःखं दुःखव्यापारसम्भवम् । कथञ्चित् तत उद्वृत्तः स प्राग् दुष्कर्मशेषतः ॥ ५१०. दृषद् ढकठोरायां दुष्प्रापतृणपाथसि । शमीकरीरबब्बूलबदरीकण्टकौकसि Jain Education International ॥५११ [५०७६१८ विन्ध्याचलमहाटव्यां कृष्णसारमृगोऽजनि । लूकाझलक्कितः कृच्छ्रात् पादचारी स चाभवत् ॥ ५९२ ॥ त्रिभिर्विशेषकम् सह मात्राऽटाट्यमानः स क्रमाद् यौवनोन्मदः । यूथेन सह बभ्राम वने वनगजेन्द्रवत् ॥५१३ गोरि (?) गानप्रवीणेनाकर्णमाकृष्टधन्वना 1 तद्गीतलुब्धश्रुतिः स व्याधेन निहतोऽन्यदा ॥ ५१४ अकामनिर्जराजीर्णदुष्कर्मा मध्यमाशयात् । निबध्य च मनुष्यायुः कृष्णसारमृगोऽथ सः ॥ ५१५ इहैव पुरि कौशाम्ब्यां शूरदेवद्विजन्मनः । शूराख्यायां धर्मपत्न्यां शूर त्वं नन्दनोऽभवः ॥ ५१६ तदनुवहत ईहाद्यात्मके राजमार्गे किल किमपि हि मूर्च्छकाग्र्यतः पश्यतश्च । सुगुरुतरणिधाम्ना तस्य शूरस्य जातिस्मरणरुचितचिन्तारत्नलाभो बभूव ॥५१७ सोऽथ व्यज्ञपयद् गुरुं गुरुतमं संसारवारांनिधि तीर्त्वा यामि यथा प्रभो शिवपदद्वीपे प्रसीदेस्तथा । सोऽप्याख्यज्जिनवल्लभप्रकटितं सावद्ययोगोत्तम श्रीपोतं श्रय भोः समीहितपदं प्राप्नोषि येन द्रुतम् ॥५१८ इति श्रीनिर्वाणलीलावतीमहाकथेतिवृत्तोद्धारे लीलावतीसारे जिना श्रवणेन्द्रियविपाक -व्यावर्णनो नाम एकादश उत्साहः * 11 ५१४.३. तद्गीतं. * अं. ५४७ For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy