________________
४९४-५०६]
एकादश उत्साहः स्मित्वाऽथाचष्ट पृथ्वीशो मा भैषीदेवि किञ्चन । सा च बाढमशकिष्टामुचत् तद्बीजमङ्कुरम् ॥४९४ अन्यदा चामरसेनकुमारेण पितौच्यत । देव विद्यां देहि मह्यं स च मौनमशिश्रियत् ॥४९५ तन्मात्राऽप्यन्यदोचेऽसौ कुमाराय प्रदीयताम् । विद्या च यौवराज्यं च सोऽवग् योगोऽधुनाऽपि न ॥४९६ कषायिता देव्यवादीन्नूनं योग्यः सुलक्षणः । अस्मै च दित्सुस्त्वं सर्व राजा योषं तदाऽप्यधात् ॥४९७ तच्च देव्या कुमाराय शिष्टं स च कषायितः । सद्योऽमिलदमात्यायैस्तद्बीजमिति पुष्पितम् ॥४९८ ततः सुबुद्धयमात्येन कुमारो व्यज्ञपि प्रभो । मिलितं मद्वचः स्वामिभृत्या नादृष्टवादिनः ॥४९९ किञ्च - चण्डालीसनाच्चण्डाली चक्रे राज्यमदोऽमुना । न चैष जीवंश्चण्डाली चण्डाल इव मोक्ष्यति ॥५०० तदयं पाप्मनाऽनेन वधाख्यं दण्डमर्हति । तत् कुमार विलम्बोऽत्र शिवतातिर्न ते ध्रुवम् ॥५०१ कुमारामात्यसामन्तैस्ततश्चक्रे मिथो ग्रहः । राजा तु मातङ्गगीताद्यासक्तो नैव वेद तत् ॥५०२ कुमारेण ततः पृष्टा माता तातस्य विद्यया । सन्निधिः सर्वदाऽपि स्याद् यद्वा न स्यात् कदाचन ॥५०३ तदाशयमजानत्या तयोचे दारसङ्गमे । विद्या सन्निहिता नास्य सपत्नीमत्सरादिव ॥५०४ मातङ्गीसङ्गतो राशि द्विष्टः सर्वः परिच्छदः । विभेद्याथ कुमारेण चक्रे स्वादेशतत्परः ॥५०५ कुमारसकेतितैश्च वेत्रिमुख्यानिवारितैः ।
धातुकैश्चतमञ्जर्याऽऽश्लिष्टोऽघाति नृपोऽन्यदा ॥५०६ ५०२.४. नैव न वेद. ५०६.४. अघानि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org