________________
२७६ लीलावतीसारे
[४८१-४९३ किञ्च - किं न हि स्थाप्यसे यौवराज्ये विद्यां न पाठ्यसे ।। कुमारे वयमिच्छामो राज्यसर्वधुरीणताम् ॥४८१ मैवं तिष्ठ निरुद्योगो मास्मास्मानमुपेक्षथाः । सुलक्षणादयोऽधीतविद्या यास्यन्ति जैत्रताम् ॥४८२ ततोऽभाणि कुमारेण सुबुद्धेऽन्यादृशं मनः । नैवास्ति देवपादानां मा विषादं वृथा कृथाः ॥४८३ सचिवोऽवोचत स्वामिन्नेवमेव भवत्विति । किन्तु स्वमत्या मदुक्तं कुमारः पश्यतु स्वयम् ॥४८४ देवीकुमारयोरेवं शङ्काबीजं मनोभुवि । निक्षिप्य क्षिप्रमाधत्त शेमुषीमिति वृष्टिवत् ॥४८५ उपचर्याभ्यधाच्छरयापालिकामभ्यधाध्यसौ(?) । राव्यालापो हले राज्ञोर्मम कथ्यो यथाश्रुतः ॥४८६ अन्येदुरवदच्छय्यापालिका मन्त्रिणं प्रति । मन्त्रिन्नद्य रहो रात्रौ राज्ञी राजानमब्रवीत् ॥४८७ पूर्व मां घनमाश्लिक्षः प्रोषितप्राप्तवत् प्रिय । मन्दादरं प्राणनाथ किमद्यैवं विरक्तवत् ॥४८८ ससम्भ्रममथो:शस्तां प्रति प्रत्यपादयत् । इदानीं शिथिलाश्लेषे धर्म एवापराध्यति ॥४८९ इति राज्ञोमिथो वाती श्रुत्वाऽमात्योऽभ्यधादिमाम् । इयं हले रहोवार्ता प्रतिपाद्या न कस्यचित् ॥४९० मन्त्रिणोचेऽन्यदा देवी तत्र किञ्चन निश्चितम् । देव्योक्तं नास्ति शङ्का मे ततस्तां सचिवोऽवदत् ॥४९१ पूर्ववत् सादरो राट् चेन्न शङ्का त्वं च वेत्सि तत् । दध्ये देव्याऽनादरो राट् ततः शङ्का मनागभूत् ।। ४९२ प्रद्विष्टा चन्द्रलेखायां ततो देव्यवदन्नृपम् ।
नानेयैषा वासगृहे छुप्त्या सर्व हि दह्यते ॥४९३ ४८५.४. शेसुखी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org