________________
४६८-४८०]
एकादश उत्साहः तज्जन्मोत्सवमाधाय भू भुजाऽमरकेतुना । अमरसेन इत्यस्य नामधेय व्यधीयत ॥४६८ स च क्रमात् कलापात्रं विक्रान्तो विनयी नयी । त्यागी प्रियंवदो मूर्तः क्षात्रो धर्म इवाशुभत् ।।४६९ प्रागमन्तुदोषेण दोषान्तरारोपान्नृपोऽन्यदा । सामन्तान् मन्त्रिणो हन्तुमारेभे व्यषदन्नमी ॥४७० सुबुद्धिना धीरितास्ते मा भैष्ट स्थाप्रमद्वराः ।। यतोऽभ्यस्तभुजङ्गस्य सन्ति निग्रहहेतवः ॥४७१ तथा हि - गीतासक्तश्चन्द्रलेखां डुम्बिनीं नक्तमेकिकाम् । शय्यान्ते गापयत्येष एकमागःपदं स्फुटम् ॥४७२ न दत्तेऽमरसेनाय कुमाराय महीयसे । विद्यां च यौवराज्यं च द्वितीयमिति च ध्रुवम् ॥४७३ सुलक्षणः सुतश्चतमञ्जर्या भू भुजा भशम् । सम्मान्यते कुमारस्य पुर एतत् तृतीयकम् ॥४७४ तदमीभिः पदैर्देव्यादयो भेद्याः सुखादपि । सुखादपि ततोऽस्माकं सेत्स्यत्येव मनीषितम् ॥४७५ अन्येाश्च श्रीमदनशलाकां रहसि स्थिताम् । मन्त्री सुबुद्धिराचष्टाच्छलं किञ्चिन्निवेदये ॥४७६ देव्यूचे ब्रूहि निःशङ्क मन्व्याख्यदेवि भूपतिः । तवानुमत्या किं भुङ्क्ते डुम्बिनी चन्द्रलेखिकाम् ॥४७७ राज्यवादीदसम्भाव्यं सर्वथा भणितं त्वया । यतो राजाऽन्यदेवीभिः सह शेते दिवैव हि ॥४७८ मयैव सह रात्रौ तु ततः किं नैव वेद्ग्यहम् । यद्येवं स्यान्मन्त्र्यद्याख्यदुपयुक्ष्वात्र सादरम् ॥४७९ परेधुरमरसेनकुमारोऽभाणि मन्त्रिणा । यथा सुलक्षणो राज्ञो वल्लभस्त्वं तथा न हि ॥४८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org