________________
२७४
लीलावतीसारे अपि ताइक्बला वीराश्चक्रभच्चक्रपाणयः ।। सामन्तामात्यजनताः प्रीणते जनका इव ॥४५४ तद्देवराज्यप्रासादमूलस्तम्भानिमान् धिनु । माऽकाण्डविड्वरं कृत्वा स्वं परं च विनाशय ॥४५५ ततो देवी सुवचनैश्चन्दनादपि शीतलैः । प्रावृडजलैरिव गिरिः कोपतापं नृपोऽमुचत् ॥४५६ व्याहरच्च कथं देवि प्रीणेऽमून् योद्धमुत्थितान् । देव्याख्यत् त्वत्पदोरेतान् पातयाम्यस्तु देव्यदः ॥४५७ देवी चक्रे ततो व्योम्नि तत्पुरावारिको शिलाम् । व्योमस्थाऽऽख्यच्च रे दुष्टा उपाध्वं नृपमादरात् ॥४५८ न चेद्वश्चरयिष्यामि प्रक्षिप्य तां महाशिलाम् । ततस्तादृगसम्भाव्यदर्शनात् ते भियाऽभ्यधुः ॥४५९ यदि राजा शरण्यः स्यात् कुर्मस्तं शरणं तदा । परं राजाऽपि नो हन्ता वरं हिंद्धि त्वमेव तत् ॥४६० देव्यवादीदभयं वो नृपं शरणमीयुषाम् । ते स्कन्धपश्र्वधाः सर्वे तमुर्वीशमथाश्रयन् ॥४६१ शिलां संहृत्य देव्याख्यत् प्रभौ युक्तं व्यधत्त न । तेऽप्यूचुः पापिनोऽप्यस्मान् पृष्ठहस्तय सुप्रभुः (? भो) ॥४६२ श्रीदेव्युक्त्यनुरोधेन मधुरालापपूर्वकम् । ते पृष्ठहस्तिता राज्ञाऽमरकेतुर्नृपोऽभवत् ॥४६३ तत्तदागः स्मरन् भूपो मन्त्र्यादिच्छिद्रमीक्षते । तदाज्ञादेवतामेते सम्यगाराधयन्ति तु ॥४६४ यद्दोषात् तां दशां प्राप्ता भूयस्ते पानगायनाः । पुनस्तं क्ष्मापतिं श्रुत्वा भेजुः प्राग्वदमस्त सः ॥४६५ तद्गीतपानमलिनश्रुतिग्रहिलितो नृपः । व्यस्मरत् . तद्दुरन्तत्वमनुभूतमिहैव हि ॥४६६ इत्थं व्रजति काले चान्यदा सुस्वप्नसूचितम् । देवी प्रासूत तनयं प्राचीव हिमरोचिषम् ।।४६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org