SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ४१६-४२८ ] Jain Education International एकादश उत्साहः अपकीर्तिफलं जन्मान्तरोपात्तं कुकर्मतः । स्वाम्यकर्मापेक्षमेवमपराधं व्यधात् प्रभोः ॥४१६ उदितः पुण्यतश्चन्द्रस्तारकैः परिवार्यते । तत्क्षयाद् भास्वदुदये स तैरेव विमुच्यते ॥ ४१७ सुदिनोदयतो भास्वांस्तथा प्रतपति प्रभो । तत्क्षये सोऽपि रक्तोऽपि सन्ध्या तद्ध्वान्त (?) माप्यते ॥ ४१८ पश्यतामुदयत्यर्कः पश्यतामस्तमीयते । सम्पदां विपदां प्राप्तौ वदन् स्वल्पमिवान्तरम् ॥ ४१९ किञ्च - एक एवायाति गर्भे जायतेऽप्येककः स्फुटम् । हस्त्यश्वरथपादातश्रियोऽभ्यायान्ति पुण्यतः ॥४२० पुण्यक्षये स एवान्यैः जितोऽयति नगान्तरे । स्वामिन् सोमकथाऽत्रार्थे प्रसद्य श्रूयतां क्षणम् ॥४२१ सोमो नाम नृपो नित्यं सम्मानयति सेवकान् । दुष्कर्मतोऽथ दायादैः प्रारब्धोऽत्याजि सेवकैः ॥४२२ दायादमिलितैस्तैः सो राज्यान्निर्घाटितो हठात् । पुण्योदयेऽथ तैरेव स राजा विदधे पुनः ॥४२३ तुष्टः स राजा तेष्वाधात् प्रसादमति हि प्रभो । अस्मदुष्कर्मनिर्मार्त मन्तुं क्षान्त्वा प्रसीद तत् ॥४२४ त्वत्पाद सेवाहेवाकः परिस्फूर्जति कोऽपि नः । लज्जया नेश्महेऽभ्येतुं प्रमाणं देव एव नः ॥४२५ अथ देव्यवदद् भद्र नापराधोऽत्र कोऽपि वः । कर्मैव सर्वसत्त्वानां वितनोति शुभाशुभे ॥४२६ तदत्रायातनिर्भीकाः प्रभुं प्रणमताञ्जसा । वर्धापनानि कुर्वीध्वं राट्प्रसादान् प्रतीच्छत ॥४२७ अत्रान्तरेऽमरकेतुर्धूमकेतुरिव ज्वलन् । प्राह प्रिये मेति वादीरेषामागः फलं ददे ॥ ४२८ ४२३.१. सा. For Private & Personal Use Only २७१ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy