________________
૨૭
लीलावतीसारे
[४०२-४१५. स्वं स्वामी जीवितं च त्वमनाथानामसि प्रभुः । इत्याख्यान् धीरितो राज्ञा स्वस्वस्थाने न्ययोजि सः ॥४०२ प्रातर्मङ्गल्यमाधायास्थाने सिंहासने स्थितः । स नृपः सोधपादातमव x x x समूहवत् ॥४०३ निशातशर्वलाकुम्भशक्तिपट्टिशपाणयः भिन्दिमालकरवालचक्रदण्डधनुर्धराः ॥४०४ राजसौधान्तः पुरांगणर ?]क्षा महाभटाः । तं परिवारयामासुर्भास्करं तत्करा इव ॥४०५॥ युग्मम् सचिवादिषु साटोपं भूपं विज्ञाय देव्यवक । देव साम प्रयुञ्जीथास्तदसाध्ये हि निग्रहः ॥४०६ राजोचे विद्याभतो मे नैषु सामादि युज्यते । किं त्वेतेषामपराधविषद्रोः फलमर्प्यते ॥४०७ देव्याख्यद् युज्यते नैवाधुनैवाकाण्डविड्वरः । दोषान्तरेणान्यदाऽमून् निगृह्णीयाः कदाचन ॥४०८ देवे विरज्यते येन न जनोऽतिभयातुरः । जनानुराग एवायं प्रभवः सर्वसम्पदाम् ॥४०९ देवि क यास्यन्ति जना विरक्ता मयि वैरिणि । । किञ्च किं न श्रुतं देवि रोषे घातः प्रियं मुदि ॥४१० चेद् हनिष्यसि देवामून् केषां स्वामी भविष्यसि । .. को वैकाकी जयी स्वामिन् वृन्दमेव नरेन्द्रति ॥४११ तदेव सामन्तमन्त्रिप्रजान्वावर्जनं वरम् । तथाऽपि राजा क्रोधान्धो धूपं पात्री न मन्यते ॥४१२ । सर्वमेतत् सुविज्ञाय तेन प्रणिधिना क्षणात् । सामन्तामात्यचक्रस्य चक्रे हृ[द]यशायकम् (?) ॥४१३ । तैश्च सम्यक् सम्प्रधार्य वचोयुक्तिपटुः पुमान् । प्रहितः प्रणतो बद्धाञ्जलि पं व्यजिज्ञपत् ॥४१४ : प्रसादान् नु प्रभोर्भुक्त्वा स्युर्दैवात् केऽपि तद्रुहः ।
दैवं हि दुष्टं नो दत्ते चपेटां किन्तु दुर्मतिम् ॥४१५ ४१५.२. स्युर्देवान् .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org