________________
३८८-४०१
एकादश उत्साहः चिरापराध्यमात्यादीन् सद्यश्चेन्निजिघृक्षसि । तन्न यामो मदुक्त्या चेत् तदा यामोऽधुनैव हि ॥३८८ यत एकमुखं केन जिग्येऽमात्यादिमण्डलम् । पुण्योदयोऽपि हि प्रायः [स]न्यायमनुधावति ॥३८९ प्रियोक्तमाश्रुतं राज्ञा बद्धः प्रस्थाननिश्चयः । विज्ञप्तः खेचरेशश्चावोचत् किं वः प्रदीयते ॥३९० पुत्रीविद्याप्रदानेन सर्वमेव व्यतारि मे । यच्चान्यद् वो ज्ञपयामि तद् विधेयं प्रसद्य मे ॥३९१ प्रपेदे तेन तत् सर्व विसृष्टौ तौ च दम्पती । कृत्वा विमानमारुह्य स्वपुरे निशि जग्मतुः ॥३९२ विमातृजो जयसिंहः प्रसुप्तो जगृहेऽमुना । क्षिप्तश्च तस्यां सरिति कृतप्रतिकृतं कृतम् ॥३९३ भूयं(?)देव्या तया साधं तच्छय्यामध्यशेत सः । मङ्गलपाठकोऽपाठीदथ प्रत्यूषमङ्गलम् ॥३९४ निहत्यामरकेतुं तं मातङ्गमिव कश्मलम् ।। सत्यं देव जगत्सिहस्त्वं जयी विजयस्यपि ॥३९५ तत्पठितमथाकर्ण्य नृपः कोपारुणेक्षणः । देव्या निवार्यमाणोऽपि सय्योत्था(?)यमदोऽवदत् ॥३९६ अरे क जयसिंहोऽस्ति नाम ब्रूषे निरर्थकम् । तद्विजेताऽमरकेतुरष्टापद उदैदयम् ॥३९७ तत् कञ्चिच्छरणं गच्छामरकेतुस्तवान्तकृत् । इत्युक्त्वा तमसौ च्छुर्याऽवधीत् प्रेषीद्यमौकसि ॥३९८ ततो हाहारवगर्भस्तत्र कोलाहलोऽजनि । तच्छ्रुत्वा मन्त्रिसामन्ताः सर्वे मिमिलुरेकतः ॥३९९ असम्भाव्यमिदं सत्यमसत्यं चेति बोधितुम् । राज्ञा सौधे समस्तैस्तैः प्रहितः सुनरेश्वरः ॥४०० इतश्च नामावशेषे तथा मङ्गलपाठके ।
भीतभीतः परिजनः सर्वो नृपमुपस्थितः ॥४०१ ४००.३. राजा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org