SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २६८ लीलावतीसारे [३७४-३८७ साऽथ तातपदौ नत्वोत्थिता याम्या गरिष्ठया । श्लिष्टा कल्पलताश्लिष्टपारिजातलतायिता ॥३७४ तातासन्नासनासीना साऽथ तं क्षितिपातिथिम् । अपाङ्गप्रेक्षणसुधारसैर्मुहुरसिस्नपत् ॥३७५ ततो मदनमञ्जूषा तामाख्यत् खल्विमा दृशः । जातिस्मृतेः प्रिये पुष्यन्त्यप्रिये सङ्कचन्ति यत् ॥३७६ लघ्व्या पृष्टे कथमिति ज्येष्ठयोक्ते सुरोदिते ।। ईहादिपूर्वममरश्रीमदनशलाकयोः । ॥३७७ अचिन्त्यवीर्योल्लासेन कर्मलाघवतस्तथा । उदैज्जातिस्मृतिदीपः प्राग्भवप्रेमदीपकः ॥३७८॥ युग्मम् श्रीतातमथ मदनशलाकेति व्यजिज्ञपत् । देवाहमस्मै नृपाय संप्रदेयाऽविलम्बितम् ॥३७९ . ततः पितृभ्यां सुलग्ने नानाकौतुकमङ्गलैः । पाणिग्रहमहश्चक्र तयोः श्रीकृष्णयोरिव ॥३८० . खेचरेश्वरदत्तेऽथ प्रासादे प्रिजमेलकः । तयोरजनि दम्पत्योर्गङ्गासागरयोखि ॥३८१ अथो मदनमञ्जूषा दिष्ट्या पितरमभ्यधात् । तात विद्यानुग्रहोऽस्य प्रसद्य प्रविधीयताम् ॥३८२ ततः श्रीकमलवेगो विनीतं तं यथाविधि । विद्ययाऽपि परिणाय्य वितेने खेचरं वरम् ॥३८३ कृतकृत्याऽथ मदनमञ्जूषा . पित्रनुज्ञया । महाशनिजवं भेजे कुलवध्वाः पतिः पतिः ॥३८४ ऊचेऽन्यदाऽमरकेतुः प्रिये यामः स्वपत्तनम् । वैमात्रेयमहिं हत्वा स्वीकुर्मी राज्यशेवधिम् ॥३८५ [ततो] जगाद मदनशलाका देव गम्यते । कुलदेव्युक्तवच्चेत् त्वं मदुक्तमनुवर्तसे ॥३८६ राजाऽऽख्यत् सपरीहासं सपत्नी| त्वं ] करोषि किम् । आर्यपुत्रेति मा वादीर्मदुक्तमवधारय ॥३८७ ३७६.३. जातिस्मृतः. ३७८.३. उद्दे'. ३८१.२. प्रसादे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy