SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २७ ३६३-३७३ ] एकादश उत्साहः नृपो दैवमथालम्ब्य तद्विमानमशिश्रियत् । क्षणात् प्रापच्च कमलवेगविद्याधरान्तिकम् ॥३६३ ततो मदनमञ्जूषाऽध्यास्य तं नृपमासने । . नमस्यामास जनकपादौ पादातदारवत् ॥३६४ निनिमित्तं किमत्रागाः कश्चायं सुभगाकृतिः ।। इति पृष्टा साऽथ मूलात् पितुः सर्व व्यजिज्ञपत् ॥३६५ एष चैवं महाराज ईदृग् देवेन दर्शितः । इतो भवात् तृतीयस्मिन् भवे मम तनूद्भवः ॥३६६ मदनमूर्तिर्मदनशलाकायाः कृते वरः । मया तात समानीतस्तत् तस्या दर्यतामयम् ॥३६७॥ युग्मम् ततः कमलवेगेन वेगेन परिरभ्य सः । प्रियालापैौरवेणामरकेतुरभाष्यत ॥३६८ पित्रादेशेन मदनशलाका तत्र चायती । जयन्तीमपि जयन्ती दृष्टेत्यमरकेतुना ॥३६९ करक्रममुखाम्बुजा विकचलोचनेन्दीवरा - कटाक्षलहरीभरा स्फुरदुरोजचक्रोद्धुरा । कचोच्चयमधुव्रता रतिरतीशकेलीपदं समुज्ज्वलरसापगा न्वियमुपैति लीलागतिः ॥३७० तां दृष्ट्वा नयनानन्ददायिनी कौमुदीमिव । बभारामरकेत्वब्धिः प्रमोदोत्कलिका इति ॥३७१ अयेऽतिसारोऽपि पथ्यं जायतेऽनुगुणे विधौ । राज्यभ्रंशोऽपि यदयमिति लाभाय मेऽभवत् ॥३७२ किञ्च - किमुदन्वन्नवनीतनिर्मिततया मृद्वीसुमाधुर्यभाक् ___ शरदिन्दुद्युतिसंभृतेर्नु परितः सौन्दर्यरोचिर्मयी । किमु पुष्पेषुशिलीमुखाहिततया सौरभ्यभत् सद्गुणा मम भाग्यनियतं कृतेयमनघा दूराच्च मामाकृषत् ॥३७३ ३७०.३. कथो'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy