SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २६६ लीलावतीसारे [३५०-३६२ स्मरं विना रतिर्वाऽसि किं वा पातालसुन्दरी । त्रैलोक्यलक्ष्मीर्यद्वाऽसि सत्यं ब्रूहि प्रियंवदे ॥३५० जगाद सा किमनया कथया पृथिवीपते । अथात्र तव निर्बन्धस्तदाकर्णय सत्तम ॥३५१ भरतेऽत्रैव वैताढ्ये नभआभरणे पुरे । श्रीमान् कमलवेगोऽस्ति महाविद्याधरेश्वरः ॥३५२ देव्यस्य मदनरेखा तयोरस्म्यस्मि नन्दना । नाम्ना मदनमञ्जूषेत्यादिव्यतिकरो निजः ॥३५३ समस्तोऽपि विस्तरेणामरकेतोस्तयोच्यत । यावद्देवेन तेन त्वरिपत्रा प्राग्भवभाविना ॥३५४ भगिन्यास्तेऽमरकेतुरयं भावी मनःप्रियः ।। इत्युदित्वा प्रेषिताऽहं त्वत्कृतेऽत्रागतेति भोः ॥३५५ चतुर्भिश्च कुलकम् तदलङ्करु वैताढ्यं स्वसारं मे सुखाकुरु । इति तद्वाचमाकर्ण्य प्रतिवाचं नृपोऽग्रहीत् ॥३५६ तडिल्लताभ्यस्तरले स्त्रीणां वाङ्मनसे सदा । कस्तद्वचसि विश्वस्याद्विश्वस्यापि भयङ्करे ॥३५७ अजानानस्त्वत्स्वरूपं संशयानस्त्वदीरिते । बाहुमात्रसहायोऽहं निर्मामि त्वद्वचः कथम् ॥३५८ स्मित्वा मदनमञ्जूषा सुधायूषाभमाख्यत । मयि कोऽयमविश्वासस्तव प्रागजन्ममातरि ॥३५९ किञ्च - ताहगव्यसनतीर्णस्याप्याप्तस्यात्र घने वने । शीतवातातपक्षुत्तृसिंहादिश्वापदास्पदे ॥३६० किमूनमस्ति ते दुःखं यतोऽभ्यधिकशङ्कया । मय्यप्येवमविश्वासी विश्वासी दीनचेतसि ॥३६१॥ युग्मम् वैमानिकविमानानां मानश्रीपश्यतोहरे । तदारोहविमानेऽत्र नात्र भीतिः कुतोऽपि ते ॥३६२ ३५५.४. 'त्रागितेति. ३६०.३. शीतदातप'. ३६०.४. 'स्वापदा'...... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy