________________
३३६-३४९ ]
Lila. - 34
Jain Education International
एकादश उत्साहः
नृपः ॥३३६
राजाऽवदत् कच्छदेशे मेदिनीतिलकं पुरम् । तत्राहममरकेतुर्गीतासक्तोऽभवं गीतासक्तेर्मया ग्रामसहस्त्र दत्तमन्यदा । डुम्बानामथ मन्त्रयूचे देवेदं युज्यते न हि ॥३३७ मयाऽपमानितश्चैष दायादैः कृतमेलकः । - मां गृहीत्वा संयमय्य निम्नगायामचिक्षिपत् ॥ ३३८ बाहुबन्धन तो नास्मि तरीतुं सरितं क्षमः । अस्फुरत्पौरुषो नष्टजीविताशः स्थितः क्षणम् ॥३३९ अत्रान्तरे महानद्यास्तस्या उपरिगामिणा । भारुण्डपक्षिणाऽऽतोऽहं बुभुक्षा क्षामकुक्षिणा ॥ ३४० मां गृहीत्वा गच्छतोऽस्य प्रदेशेऽत्र नभस्तले । भारुण्डेनान्येन लग्नं युद्धं भक्ष्यनिबन्धनम् ॥३४१ युद्धा कुलस्य तस्याहं छुटितश्चरणग्रहात् । वल्लीवनेऽत्र पतितो ददृशे सुन्दरि त्वया ॥ ३४२ ततो मदनमञ्जूषा सविषादमदोऽवदत् ।
अहो महाधीर दशा विषमोपस्थिता तव ॥ ३४३ हा हा विधि विधेरस्तु परव्यसनकारिणः ।
परान् विनाशयन्नेष स्वयं किं न विनश्यति ॥ ३४४ विधेरजननिर्वाऽस्तु विचारविमुखात्मनः । स्वापत्यानां महापुंसां यो दत्ते सम्पदापदौ ॥ ३४५ सम्पत्तिश्च विपत्तिश्च द्वे प्रिये वा महीयसः ।
वारकेण ततो भुङ्क्ते भोक्ता युक्तमसावुभे ॥३४६ तयेत्युक्ते स भूपालो विकसन्नेत्रपङ्कजः । हारसुहृद्दशनाभीशुधोरणिः ॥३४७
व्याजहार
प्रत्युपकारमर्हन्ति शत्रवस्तेऽथवा विधिः । राज्यश्रीत्याजनेनापि यैस्त्वं मे मेलिताश्च ते (१) ॥ ३४८ धनदेव्यसि किं सौम्ये किं वा व्योमाधिदेवता । तिलोत्तमारम्भोर्वशीष्वन्यतराऽप्सराः ॥ ३४९
यद्वा
For Private & Personal Use Only
२६५
www.jainelibrary.org