________________
२६४
[३२२-३३५
लीलावतीसारे ततो युवां भुक्तभोगे धर्ममत्याः पदाम्बुजे । प्रव्रज्य केवलं प्रान्ते प्राप्यात्रैव हि सेत्स्यथ ॥३२२ स च ते प्रागजन्मपुत्रोऽमरकेतुरितो भवात् । षष्ठे भवे सेत्स्यतीति धर्मस्वामी ममादिशत् ॥३२३ तत्सौम्ये व्रज तत्र त्वं यथादिष्टं समाचर । आख्यान्मदनमञ्जूषा त्वं तमानीय मेऽपय ॥३२४ देवोऽग मे सहायाता देवाश्चेलुर्दिवं प्रति । पश्चादेकाकिनः स्थातुं न च भद्रे ममोचितम् ॥३२५ भो भो महाशनिजव मदुक्तं कुर्वती सखे । त्वया नेयं निषेद्धव्येत्युक्त्वा दिवमगात् सुरः ॥३२६ साऽपि मदनमञ्जूषाऽल्पीयस्तरपरिच्छदा । पतिमापृच्छय वेगेन् देवादिष्टे वने ययौ ॥३२७ ददर्श च तमालस्य पादपस्य तले स्थितम् । अमराकारममरकेतुं
द्रुतमुपासृपत् ॥३२८ उच्छोट्य तद्बन्धनानि तयाऽसौ मधुरं जगे । भो भद्र • त्वं सुपुरुषलक्षणाढ्यो निरीक्ष्यसे ॥३२९ विषमां दुःसहामेतां दशां प्राप्तश्च लक्ष्यसे । मिथो विरुद्धादेतस्मान्मनश्चित्रीयते मम ॥३३० व्याजहार नृपोऽकस्मात् तां दृष्ट्वा विस्मिताशयः । हे सुन्दरीदं किं चित्रं चित्रचित्रार्णवे भवे ॥३३१ यतः - जगद् विनटयत्येष निनिमित्तरिपुर्विधिः । नृतिर्यङ्नारकसुररूपै.कैरनन्तशः धिग् धिग भवो यत्र राजा रङ्को रकस्तु भूपतिः ।। पत्तिः पतिः पतिः पत्तियकोऽर्थी स दायकः ॥३३३ ततः स्मित्वाऽऽह मदना सत्यं सत्पुरुषो भवान् । ईदृश्या यद्यपि न हि विषादी कथमन्यथा ॥३३४ किन्तु यत् ते विधत्ते स्म दशावेशममूदृशम् । तत्कारणमहं श्रोतुमिच्छामि स्वच्छमानसा ॥३३५
॥३३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org