________________
ट-इस
अकादशं उत्साहः वेत्ति सर्व देव एव पामरो वेत्ति किं जनः । वयं प्रभोरपत्यानि शिक्षणीयाः समन्ततः ॥३०८ सन्तु सामन्तादिकोशाः कोशा येऽन्यमहीभुजाम् । स्वाधीनाः स्वामिनस्तेऽतिचण्डदोर्दण्डशालिनः ॥३०९ सान्त्वयित्वेति नृपति तदहर्जातमान्यसौ । गृहेऽगाद् राजविज्ञप्तिहेवाकस्तु बहिर्ययौ ॥३१० सामन्तस्यारिसिंहस्यान्यदा मन्तुं विनैव हि । देशश्च राजधानी चापहृत्यामरकेतुना ॥३११ तेभ्यो विलेभे डुम्बेभ्यः कुटुम्बेभ्य इवात्मनः । क्व बा विवेको विषयासक्तश्रवणसङ्गिनाम् ॥३१२॥ युग्मम् ततस्तेनारिसिंहेन साभिमानेन सिंहवत् । सामन्ता मन्त्रिणः सर्वेऽप्येवं रहसि भाषिताः ॥३१३ या मे गतिरभूत् सा वोऽप्यद्य श्वो वा भविष्यति । तच्चिन्तयत यत् कृत्यं यद्भविष्या विनंक्ष्यथः ॥३१४ यतोऽयं गीतवातूलो नापवादं समीक्षते । राज्यं न चिन्तयत्येवाधत्ते कोशक्षयं भशम् ॥३१५ कलकण्ठी: पानपत्नीः क्षेप्स्यत्यन्तःपुरेऽचिरात् । ततो डुम्बमयं सर्वमयमेकीकरिष्यति ॥३१६ अतोऽद्य स्थाप्यते राजा प्रतिस्फुरन्निदं(?) समैः । ततो विमातृजं राज्ञो भयमिह समूहवत्(१) ॥३१७ तेनागत्य गीतासक्तो x x x x रसज्यत । मन्त्रिसामन्तशक्त्या [च] राज्यद्वयमधिष्ठितम् ॥३१८ प्रवाहितोऽमरकेतुर्नद्यामद्यैव सुन्दरि । व्यसनं नात्र नामुत्र कस्यापि स्याच्छुभावहम् ॥३१९ ऊचे मदनमञ्जूषा तत् किं कार्य मयाऽधुना । भद्रे गच्छ वनेऽमुत्र द्रुतं द्रक्ष्यसि तत्र तम् ॥३२० तं च नीत्वाऽऽशु वैताढ्ये नभआभरणे पुरे ।
भगिनीं स्वस्य मदनशालाकां त्वं विवाहय ॥३२१ ३१६.१. प्रान'. ३१७.३. विमातृनं. ३१९.२. नामु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org