________________
लीलावतीसारे
[२९४-३७ तथा गीतं तथा नृत्तं तथा चान्तःसु(?) भाषितम् । पानपत्न्या यथा तस्यां राजा तन्मयतामगात् ॥२९४ स्वर्ण रत्नानि वस्त्राणि ग्रामाकरपुराणि च । दत्तान्यस्यै बह्वमस्त सुतीर्थव्ययितादपि ॥२९५ अहर्निशमुपतल्पं स्थितां तां पानवल्लभाम् । स्वेच्छयाऽगापयच्छास्ति कः स्वच्छन्दं नृपद्विपम् ॥२९६ इत्यस्थानामानदानात् कोशस्य विमृशन् क्षयम् । मन्त्री विमलमत्याख्यो रहस्युर्वीशमभ्यधात् ॥२९७ राज्यश्रियो मूलपीठं पूर्वजैर्वः प्रतिष्ठितम् । कोशमस्थानदानेन किमेव खनसि प्रभो ॥२९८ स्वामिन् दत्तेन वीरेभ्योऽमुना हि विजिगीषुराट् । राज्यान्तरं लीलयैव दुःसाधमपि साधयेत् ॥२९९ वृथा क्षीणे पुनः कोशे प्रारब्धो रिपुभिर्नृपः । राज्यभ्रष्टो निःसहायः सह याति वनेचरैः ॥३०० . कोशाधकामया पृष्टाः शिष्टमेतैर्यथास्थितम् । भास्वानिवास्तसमये राट्कोशोऽजनि निर्वसुः ॥३०१ अन्यच्च किञ्चिद्देवस्य वच्मि चेन्नापराध्यहम् ।। राजाऽऽख्यन्नापराधस्ते ब्रुवाणस्य हितोचितम् ॥३०२ . देवासमीक्ष्याभिधायी यकिञ्चिद् भाषते जनः । गायकी पानपत्नी तत् सौधे व्यासेध यत्नतः ॥३०३ , पोस्फुर्यमाणाधरोऽथ कोपात् पाटललोचनः । . . राजोचे राजतोऽमात्या विज्ञाः किं येन शास्सिरे ॥३०४ ... राज्ञा भत्या अमात्याद्याः क्रियन्ते यदि कल्पतः । एतावताऽपि किं ते स्युः शिक्षकाः स्वामिनः पितुः ॥३०५ तथा सामन्तमन्त्र्यादेः कोशाः सर्वे ममैव हि । समुद्रवत् ततः कोशः कल्पान्तेऽपि ममाक्षयः ॥३०६ . अप्रसन्नं प्रभुं बुवा मन्त्र्यवोचत् कृताञ्जलिः ।। एवमेतत् प्रभो पौरप्रवृत्तिः कीर्तिता मया ॥३०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org