________________
२८१-२९३)
अकादश उत्साहः तत्रोत्तराशाधिपतिः स्फुरन्नवनिधीश्वरः । अलकायामिवाराजद् राजा श्रीनरवाहनः ।।२८१ अर्हन् देवो गुरुः साधुर्धर्मः सर्वज्ञभाषितः । इति तत्त्वं सत्त्वमिव यस्याध्यात्म व्यज़म्भत ।।२८२ तस्य प्राणप्रिया जज्ञे देवी श्रीकमलावती । निःसीमरूपकमला कमला श्रीपतेरिव ॥२८३ स च त्वदीयतनयदेवजीवस्ततच्युतः । तस्याः कुक्षाववातारीत् सरस्यामरविन्दवत् ॥२८४ समयेऽजायतैतस्यास्तनयोऽद्भुतरूपवान् । नाम्ना श्रीअमरकेतुर्मीनकेतुरिव श्रियः ॥२८५ क्रमेण तं कलापात्रं कलाचार्यो विनिर्ममे । युवराजरमापात्रं पुनः श्रीनरवाहनः ॥२८६ तमन्यदा राज्यपदेऽभिषिच्य नरवाहनः ।। धर्मरत्नगुरूपान्ते प्रव्रज्याराज्यमाददे ॥२८७ स च राजाऽमरकेतुर्धूमकेतुः प्रतापतः । इन्द्रियार्थेषु . शब्दस्य साम्राज्यपदवीमदात् ॥२८८ ततश्च - मधुमत्ताङ्गनागीतगीतपीयूषवाहिनीम् सदाऽवगाहते स्मासौ राज्यचिन्तापराङ्मुखः ॥२८९ गीतविद्याकोविदानां स्त्रीणां पुंसां च भूरिशः । सुवर्णरत्नालङ्कारान् स ददौ ठकितः किल ॥२९० चारणाद्यैः श्रुतिसुखमत्युच्चैः कृत्यवर्णितः । अतादृशोऽपि तादृक्षं मन्यस्तेषु धुवृक्षति ॥२९१ गान्धर्व्यसत्कलागेहं गान्धर्वमिव देहवत् । तस्य राज्ञः पुरो वा(?)गात् पानगायनपेटकम् ॥२९२ राज्ञा सपरिवारेण सद्योऽस्यावसरो ददे ।
यदिष्टं यस्य तत्रासौ विलम्बं नावलम्बते ॥२९३ २८२.१. साधुधर्मः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org