SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [२६७-२८० गुरुत्वे संगतोऽस्यान्येऽप्येवं स्युर्वतालसाः । जगौ मुनिः साधवस्तं हीनाचारं हि जानते ॥२६७ ततो नालम्बनं स स्यात् तेषां युष्मद्गिराऽपि च । सोमादित्यस्तत् प्रसद्याहूयतां स्वपदान्तिके ॥२६८ सूरिभिः साधवः पृष्टास्तद्वचस्तैः प्रमाणितम् । जगदे गुरुभिर्भूयो नाऽनुशिष्यः स केनचित् ॥२६९ सोमादित्यस्ततो हुतो गच्छेऽप्यस्थाद् यदृच्छया । एवं शुद्धव्रतस्तातः पुत्रस्तु शबलवतः ॥२७० प्रान्तेऽनशनमाधाय समाधाय च मानसम् । सौधर्मे श्रीप्रभे तौ च विमाने जज्ञतुः सुरौ ॥२७१ पिताऽभवद् विमानेशः पुत्रस्तस्यैव किङ्करः । एतावदन्तरं हि स्याच्छुद्धाशुद्धचरित्रयोः ॥२७२ किञ्चिच्छबलचारित्रे सोमभद्रासुदर्शने । प्राग्वत् तयोरेव पन्यौ देव्यौ तत्रैव जज्ञतुः ॥२७३ ते प्राक्शबलचारित्रादल्पायुष्कतया च्युते । सोमभद्रा त्वमभवः सुदर्शना तु ते स्वसा ॥२७४ सोमदत्तः । पुनरहं सागरायुर्विमानराट । निष्कलङ्काखण्डपुण्यविलासः स्यादमूदृशः ॥२७५ इतिदेवोक्तवृत्तान्ताज्जातिस्मृत्येकबीजकात् । प्रापन्मदनमञ्जूपा जातिस्मृतिमहानिधिम् ॥२७६ इयं देवमथावोचदेवमेवेति निश्चितम् । तदहं प्रव्रजिष्यामि ब्रजिष्यामि तवान्तिकम् ॥२७७ जगाद देवोऽद्याप्यस्ति कर्मभोगफलं तव ।। ऊचे मदनमञ्जूषा स पुत्रः क्वास्ति मेऽधुना ॥२७८ निर्जरो व्याजहाराथ भद्रेऽस्त्यत्रैव भारते । कच्छो नाम जनपदः पदमाश्चर्यसम्पदाम् ॥२७९ तत्रास्ति : रत्नखचितं रुचितं महसाऽजसा । मेदिन्यास्तिलकमिव मेदिनीतिलकं पुरम् ॥२८० २७४.२.द्युते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy