________________
अकादश उत्साहः ततश्च स्वजनान् सर्वान् सुखाकृत्य स कृत्यवित् । पत्न्या पितृभ्यां स सह दीक्षायै गुरुमाश्रयत् ॥२५४ सोमदत्तं सोमभद्रां सोमादित्यं सुदर्शनाम् । .. चतुरोऽप्यदिदीक्षत् तान् दृढधर्मयतीश्वरः ॥२५५ अभ्यास्यतां गुरोः पार्थं संयतौ तौ श्रुतक्रिये । श्रीसुक्ताभिधमहत्तरापाश्चै च संयते ॥२५६ संवेगात् ते च चारित्रं चिरमाचेरुरुज्ज्वलम् ।। तपोऽग्निना चात्महेममधिकाधिकनिर्मलम् ॥२५७ भीष्मे ग्रीष्मेऽन्यदा भीमरस्नानादिपरीषहैः ।। ब्राह्मण्यबन्धुभिरिव सोमादित्यो जितोऽवदत् ॥२५८ कीदृग् धर्मो विना शौचं शौचं न मलधारणे । ततः प्रासुकनीरेण स्नानं नानुचितं खलु ॥२५९ आजन्मलग्नाब्रह्मण्यवासना या तिरस्कृता । सा वहन्ती च तद्वैर व्यलगत् सोमदत्तजे ॥२६० ततोऽनुशास्यमानोऽपि गुरुणा जनकेन च ।। बकुशत्वं प्रपेदे स गात्रप्रक्षालनादिभिः ॥२६१ वार्यमाणो निन्द्यमानो गीतागीतमुमुक्षुभिः । ... स मनाक्मलिनाचारस्तस्थौ पृथगुपाश्रये ॥२६२ . तागज्ञानरमावासस्ताहगवैराग्यशेवधिः ।... स्वैराचारः सोऽपि जज्ञे मरे(?) कर्मरिपोर्बलम् ॥२६३ सखेदं सोमदत्तोऽथ गुरून्नत्वा व्यजिज्ञपत् । भवाब्धेरेवमुन्मग्नोऽप्यस्मि मझ्यामि सुप्रभो ॥२६४ यतः - पृथकस्थितोऽसौ स्वैरित्वाद् विरुद्धं किञ्चिदाचरन् । मा भूद् भवभ्रमीत्यस्य द्वितीयः स्यामहं यदि ॥२६५ तदाऽऽज्ञाबाह्योऽहमपि भविष्यामि भवास्पदम् । तत् प्रसथैषोऽपि विभो कथञ्चिदनुवर्त्यताम् ॥२६६॥ युग्मम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org