________________
'लीलावतीसारे पुनर्जनयिताऽऽचष्ट वत्स पृच्छ स्वमातरम् । भवद्भिः सममेवासौ प्रनिताऽत्र न वा पितः ॥२४० ततो माताऽऽह हे वत्स प्रव्रजिष्यसि किं कृते । सोऽवग धर्मकृते मातस्तर्हि वत्स निशामय ॥२४१ मात्रापित्रोरसमाधिं कृत्वा प्रव्रजतस्तव । अधर्मो निश्चितस्तावद्धर्मः सन्दिग्ध एव भोः ॥२४२ पुत्रोऽबादीदत एव युष्मान् विज्ञापयाम्यहम् । यन्मे युष्मत्समाधानात् पुण्यं पुण्याय जायते ॥२४३ भक्त्यानुकूलितौ सौ च पत्नी पृच्छेत्यवोचताम् । साऽऽख्यत् पठितमूर्खस्य ब्रवीम्येतस्य किं पितः ॥२४४ सोमादित्यस्ततः स्मित्वा प्रेयसी प्रत्यवोचत ।। जाड्यज्वरहरे वाचां देवि साक्षात् सरस्वति ॥२४५ . प्रसद्य सद्यस्त्वमेव मामध्यापय बालिशम् । पठितमूर्ख मय्येवमुपालम्भस्तवैव हि ॥२४६॥ युग्मम् परीहासविलासेनानेन स्मरशरातुरम् । तं मत्वा साऽपानशा पश्यन्ती तमभाषत ॥२४७ भक्तानुरक्तां तारुण्यपुण्यां मामेवमेव हि । मुञ्चन् प्राणेश निःक्लेशशोच्यतामुपयास्यसि ॥२४८ प्रियोऽथ हे प्रिये नाहमपरीक्षितकारकः । सुपरीक्षितकारी तु कथं यास्यामि शोच्यताम् ॥२४९ पुनः प्रियाऽऽख्यत् प्राणेश प्रेक्षावत्तां प्रवेद्मि ते । आसंघर्षात् त्वयुक्तोक्तिमन्तुं क्षन्तुं ममार्हसि ॥२५० किञ्च दीक्षिष्यसे त्वं चेत् तद्दीक्षिष्येऽस्म्यपि ध्रुवम् । सदने कानने वाऽपि सत्यः पत्यनुगामुकाः ॥२५१ सोमादित्यो मुदाऽऽचष्ट साधु साधु पतिव्रते । इदं ते भाषितं कान्ते प्रेमहेमकषोपलः ॥२५२ ऊचे पितृभ्यां यः पन्था यूनस्तव विवेकिनः ।।
स आवयोर्विशेषेण सुकुले ह्येकमार्गता ॥२५३ २४०.४, न या. २५१.४. 'गामुकः. २५२.३. इदं च ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org