________________
२२८-२३९] अकादश उत्साहः
२५७ दान्ताः शान्ताः तपोलीना निरीहास्त्यक्तमत्सराः । कथं शूद्रा अधमा वा किन्तु ते ब्राह्मणोत्तमाः ॥२२८॥
त्रिभिविशेषकम् किञ्च यज्ञोपवीतेन ब्राह्मणः स्याद् गुणेन वा । । यद्याद्यस्तद्ब्राह्मणः स्यात् तद्वृत्तौ योऽपि सोऽपि हि ॥२२९ गुणेन चेत् स हिंसादिरहिंसादिरथो मतः । आद्ये व्याधादयो विप्रा द्वितीये साधवः परम् ॥२३० यतः - सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः । सर्वभूतदया ब्रह्मेत्येतद् ब्राह्मणलक्षणम् ॥२३१ ब्राह्मणो ब्रह्मचर्येण यथा शिल्पेन शिल्पिकः । अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत् ॥२३२ अथ द्विजद्विजीजातो ब्राह्मणो न तदप्यलम् । स्त्रीणां चापलतो नैव सम्यग् निश्चीयते पिता ॥२३३ कुशावलम्बसुहृदा तदनेन न किञ्चन । तन्मां तातानुजानीहि येनाशु प्रव्रजाम्यहम् ॥२३४ भट्टोऽवादीद्वत्स गृहाश्रमपालनकातराः । अदातारः कापुरुषाः पाषण्डमधिशेरते ॥२३५ तदुक्तम् - गृहाश्रमसमो धर्मो न भूतो न भविष्यति । पालयन्ति नराः शूराः क्लीबाः पाषण्डमाश्रिताः ॥२३६ पुत्रो जगाद किं तात ये केचित् व्रतमाश्रिताः । सर्वे कापुरुषास्तेऽत्र यदि वा केचिदेव हि ॥२३७ आये जैमिनिमन्वाद्याः सर्वे कापुरुषास्तव । तभाषितं ततो मिथ्या नानुष्ठेयं बुधैः क्वचित् ॥२३८ सिद्धसाधनमन्यस्मिन् केचिदाजीवकाः किल ।
तत् काशपुष्पवदिदमवकेशिवचस्तव ॥२३९ Lila.-33
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org