SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २७२ Jain Education International लीलावतीसारे अरे पुण्यैश्चेत् कृतोऽहं भवद्भिः किं फलं मम । कुर्वीध्वं शरणं कञ्चिदवश्यं मारयामि वः ॥४२९ तच्च शिष्टं तेन गत्वा प्रधानानां ततश्च ते । निश्चिक्युम्रियते क्षत्राचारेण न पुनर्मुधा ॥४३० ऐकमत्येन तैः सेव्यं सर्वं स्वस्य नृपस्य च । सद्यः संवर्मयाञ्चक्रे तदधीनं ह्यदोऽखिलम् ॥४३१ ततः पुनः शक्तिभक्तियुक्तं भाणयितुं वचः । प्रहितस्तैर्जगौ भूपं प्रचुरश्चतुराननः ॥४३२ फलितोऽपि तिलस्तंबो निष्पत्रोऽत्र यदश्नुते । तदस्माभिर्विनाऽवश्यं विद्याबल्यपि लप्स्यसे ॥ ४३३ किञ्च तमो विगृह्य रविणा प्राप्तं तेजस्विनाऽपि किम् । पृष्ठलग्नस्यास्य भिया किलैकः पर्यटत्ययम् ॥४३४ तेजस्विभिर्युतो ध्वान्तजयीन्दु शोभते यथा । तथाऽस्माभिः कृतकोशपानः शोभिप्यसे ध्रुवम् ॥४३५ अथ विद्यामदाद् योद्धुमस्माभिरभिलष्यसि । तदागच्छाशु यन्नद्यां सविद्योऽपि प्रवाह्यसे ॥४३६ पोस्फूर्यमाणाधरेण कोपिनाऽमरकेतुना । ततः स्ववीरा औच्यन्त युध्यध्वं तैर्युताऽथवा ॥४३७ वीरा उदीरयामासुर्नैषा नीतिः क्षितीश्वर । प्रधानेषूपस्थितेषु वैमुख्यमधिपस्य यत् ॥४३८ -- अन्यच्च कोपाटोपो यदप्येषु स्वामिनो नोपशाम्यति । तथाऽप्यलक्ष्यभावोऽद्य देवो व्याहरताममून् ॥४३९ कालान्तरे पुनर्दोषान्तरेणामून् यथोचितम् । निगृह्णीयाः संप्रधार्याऽनुगृह्णीयाः प्रसद्य वा ॥४४० - For Private & Personal Use Only [ ४२९-४४० www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy