________________
२०१-२१४]
अकादश उत्साहः चारित्रावरणकर्मक्षयोपशमतोऽथ सः । . . ऊचे पित्राद्यनुमत्या दीक्षिष्येऽहं तवान्तिके ॥२०१ प्रभुराहास्त्वविघ्नं ते मा स्म भोः प्रतिबध्यथाः ।। गत्वा गृहे ततः सोऽवग पितरौ दयितामपि ॥२०२ आद्यश्वेताम्बराचार्यपार्थे धर्मः क्षमादिकः ।। भवाब्धिसेतुनिर्वाणहेतुस्तात श्रुतो मया ॥२०३ ततस्तं त्वदनुज्ञातस्ताताङ्गीकर्तुमुत्सहे । सहेद्भवदवस्थानं कः पश्यत् निर्गमं सुधीः ॥२०४ इति स्वपुत्रस्य वाचं मन्वाना वज्रनिष्ठुराम् । ततो माता साश्रुपाता जगादेति सगद्गदम् ॥२०५ वत्सास्माककुलादित्य सोमादित्य विदांबर । श्रेष्ठवर्ण ज्येष्ठपुत्र किमवाच्यमवोचथाः ॥२०६ त्रयीमुखाः क्व भूदेवास्तीर्थस्नानपवित्रिताः । शूद्राधमाः श्रमणकाः क्वामी मलमलीमसाः ॥२०७ धर्मस्य वार्ता द्विजेषु न श्वेताम्बरधारिषु । कस्तूर्यामोदो मृगेषु न गर्ताशूकरादिषु ॥२०८ तद्वत्स श्रमणोपान्ते दीक्षेच्छां मा कृथाः क्वचित् । चेत् कुलस्य पितुः स्वस्य मम चेच्छसि गौरवम् ॥२०९ पिताऽप्याचष्ट ते वाक्यं प्राङ्मेऽभूच्चन्दनं हृदि । अधुना तु त्वदाख्यातं तत्र वज्रानलायते ॥२१० त्रयीबाह्येषु शूद्रेषु धर्मः श्रमणकेषु कः । त्रयीबाह्य ह्यनुष्ठानं कष्टं कष्टाय केवलम् ॥२११ त्वयाऽधीता त्रयी ब्रह्म षटकृत्वोऽष्टौ समाधतम् । गृहाश्रमेऽधुना पुत्रान् जनयित्वा त्रयीधरान् ॥२१२ अध्याप्य बहुशश्छात्रानिष्टापूर्त विधाय च । भोजयित्वा द्विजान् वानप्रस्थो भूयाः कुलोत्तम ॥२१३॥ युग्मम् शूद्राधमानां तु धर्म न चक्रुः कुर्वते न च ।
करिष्यन्ति न च क्वापि सर्ववर्णोत्तमा द्विजाः ॥२१४ २०२.१. प्रभुरागहा. २११.२. श्रवणकेषु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org