________________
२५४. लीलावतीसारे
[१९३-२०० सर्वेऽपि पश्यन्ति न ही तमित्यदो जानाति सर्वज्ञमृते न कश्चन । त्वं चेद् विजानासि तदाऽसि सर्ववित् तं त्वं निषेधत् स्वमहो निषेधसि ॥१९३ तथा यो यत्रार्थे नियतमविसंवादिवचनः
स तत्सम्यग्ज्ञाता त्वमिव निजगेहप्रभृतिषु । तथा चिन्तालूका(?)शशभूदुपरागादिषु जिन
स्ततस्तद्विज्ञाता कृतिभिरुररीकर्तुमुचितः ॥१९४ न चेयन्मात्रेऽस्यावगतिरिति विद्वज्जनमतं
पटायाक्षिस्फारं घटमुखमिहस्थं हि मनुते । ततस्तद्दृष्टान्ताद् भगवति समात्यक्षममना(?)
नुमानं दृश्यकावगतिरिव दृश्यान्तरगतौ ॥१९५ यतः - एकात्यक्षा x x x x x x x
सर्वात्यक्षावरणविगमे सर्ववित्त्वं न किं तत् । किं वा स्थेयो जगति भवताऽपीन्द्रियातीतदर्शी
___ यागस्वर्गान्वयगतिरपि स्यात् कथं ह्यन्यथा ते ॥१९६ अपौरुषेयागमतोऽथ यागस्वर्गा वयस्यावगतिः समस्ति । नैवं वचः स्यात् पुरुषं विना नो शाल्यकुरः शालिमृते किमु स्यात् ॥१९७ यत उक्तम् - तात्वादिजन्मा ननु वर्णवर्गो वर्णात्मको वेद इति स्फुटं च ।। पुंसश्च तात्वादिरतः कथं स्यादपौरुषेयोऽयमिति प्रतीतिः ॥१९८ ततश्च - यः सर्वज्ञो यथाऽभूत् स च भरत इवाध्यक्ष आसीत् तदानीं
नानासंशीतिहत्याऽनुमित उपमितः प्राग्भवैः सर्वविद्भिः । अर्थाद्वाऽतीन्द्रियार्थप्रणयनत इहापन्न उक्तः श्रुते चे
त्यास्तेऽसौ सर्वमानप्रथित इतरथा सर्वलोपप्रसङ्गः ॥१९९ , सोमादित्य तदस्ति सर्वविदुरोऽत्रान्यत्र वा सर्वथा
तद्धर्मप्रतिपादनं न विरसं तत्सौम्य विद्धि स्वयम् । इत्येवं दृढधर्मसू रितिलकैरुक्तः स मुक्तहिसा
नत्वा पूज्यपदौ जगाद भगवन् सुष्टु त्वया बोधितः ॥२००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org