SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ अकादश उत्साहः १८-१९२] द्विजः -- भो भो , असति सर्वज्ञे तदुक्तधर्मसंकथा । गगनाम्भोजसौरभ्यकीर्तनामनुधावति ॥१८५ गुरुः - ऐहिकामुष्मिकानेकानुष्ठानादिनिबन्धनम् । किं नास्त्येव हि सर्वज्ञः सर्वभावावभासकृत् ॥१८६ द्विजः - सर्वज्ञो नास्ति सग्राहकसकलसमक्षादिमानातिगत्वा द्यत् स्यादेवं तदेवं खसुममिव तथा चैष तस्मात् स नास्ति । हेतु सन् परात्माऽपि हि न खविषयोऽभ्रं(?) च रूपाद्यभावात् तज्ज्ञानं तच्च सर्वार्थगतमिति कथं नाम विद्यात् समक्षम् ॥१८७ प्रत्यक्षेऽसति नानुमानमपि तं गृह्णाति तद्विस्फुटम् व्याप्तिज्ञप्तिभवं न साऽनिशपरोक्षे लिनलिङ्गिद्वये । तज्ज्ञप्तावनुमान्तरात् पुनरवस्था नैव तत्कारणा ___ मावान्नास्त्यनुमानमत्र समयोऽप्येतस्य न ज्ञापकः ॥१८८, तथा हि - किञ्चिज्ज्ञपूर्वेऽत्र न हि प्रमाणता सर्वज्ञपूर्वस्तदसिद्धितोऽस्ति न । अपौरुषेयेऽत्र च सर्वविद् वृथा तन्नागमः सर्वविदः प्रसाधकः ॥१८९ तस्यादृष्टो नैव(?)सादृश्यबोधस्तस्याभावात् तत्र नैवोपमानम् ।। दृष्टाद्यं(?) किं तं विना दुर्घटं तन्नार्थापत्तेरप्यमुष्योपपत्तिः ॥१९० ततः प्रमाणपञ्चकं न यत्र वृत्तिमश्नुते । भवत्यभावगोचरः स सर्ववित् खपुष्पवत् ॥१९१ गुरुः - यत् प्रोक्तं भवतो न सर्वविदुरोऽध्यक्षादिदृश्यः स किं दृश्यो नास्ति तवैव सर्वजगतीवास्तव्यलोकस्य वा । आये निश्चितसाधनं न भगवद्वीक्षासु योग्यो भवान् प्रत्यक्षोपरमो निषेधति न च त्वन्मातृजन्मादिकम् ॥१९२ , १८६.३. सर्वशा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy