SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ૨૨ लीलावतीसारे [१७३-१८४ अस्यैव जम्बूद्वीपस्यैरावते परिदिद्युते । सत्याभिधं चन्द्रपुरं पुरं चन्द्रमुखीमुखैः ॥१७३ तत्रासीत् सोमदत्ताख्यो द्विजः षट्कर्मकर्मठः । चतुर्दशानां विद्यानां तत्त्ववित्तत्प्रणेतृवत् ॥१७४ तस्य प्रिया सोमभद्रा सोमादित्यस्तयोः सुतः । सर्वविद्यः कृतः पित्रा स च सर्वज्ञमान्यभूत् ॥१७५ दीक्षितब्रह्मदेवस्य नन्दना हृद्यदर्शना ।। सुदर्शना तेन मुदा पितृभ्यामुदवाह्यत ॥१७६ इतश्च - सम्यग्ज्ञानलतावितानमुदिरः सम्यक्त्वरत्नाकरः प्रव्रज्याप्रमदाबसन्तसमयः शश्वत्तपःश्रीप्रियः । नानालब्धिनदीनदीपरिवृढः पुण्यस्वकोशो दृढ स्तत्रागाद् दृढधर्मसू रितिलकः षण्डे सहस्राम्रके ॥१७७ कल्पद्रुममिवोदीतं श्रुत्वाऽगात् तं नमस्यितुम् ।। सान्तःपुरपरीवारो जितारिर्वसुधाधवः ॥१७८ प्रदक्षिणय्य नत्वा च यियाचिषुरिवेप्सितम् । कृताञ्जलिः स उर्वीशो न्यविक्षत गुरोः पुरः ॥१७९ सद्देशनासेतुबन्धः प्रबन्धेन गरीयसा । भवाम्भोधि लवयितुं बबन्धे सूरिणा ततः ॥१८० सोमादित्योऽशृणोद्राजा सू रिपार्श्वे ययाविति । ततोऽहमानी सामर्षः स चिन्तां चकृवानिति ॥१८१ तत्र गत्वा राट्समक्षं तं जित्वा च सिताम्बरम् । नृपं विपरिणमय्य स्वं यजमानमादधे ॥१८२ विचिन्त्येति सोऽभिमानी तत्रागत्याभ्यधाद् गुरुम् । किमेवमत्युच्चगिरा विरसं रारटीषि भोः ॥१८३ गुरुः - सर्वज्ञोपज्ञधर्मोक्तौ विरसं मूढ किं ननु । अजीर्णदोषिणो यद्वा याति पथ्यमथ्यताम् ॥१८४ १७९.२. यियाचिपु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy