________________
१५९-१७२] अकादश उत्साहः
२५१ किमेतदिति संभ्रान्तो यावदेष व्यचिन्तयत् । तावत् प्रज्ञप्त्याऽस्य कर्णे व्यज्ञप्यत रहस्यवत् ॥१५९ देवायोध्यापुरे देवदेवं श्रीधर्मतीर्थपम् ।। अभ्यायातं मुदा नन्तुं यान्ति खे खेचरा अमी ॥१६० अथाशनिजवोऽवादीदासन्नान् खेचरान् प्रति । प्रभु नन्तुं गम्यते भोः सत्वरं देव गम्यते ॥१६१ ततो विमानं विकृत्य कृत्यवित् सपरिच्छदः । तदारुह्य द्रुतं प्राप श्रीधर्मस्वामिनोऽन्तिके ॥१६२ विधिना स प्रभुं नत्वा सान्तःपुरपरिच्छदः । उपशकं निषसाद शकलीलां विडम्बयन् ॥१६३ तत्रान्तरे भगवतो देशनारत्नरोहणात् । केचित् सम्यक्त्वमाणिक्यं देशव्रतमणि परे ॥१६४ केचिच्च चारित्रचिन्तामणिमप्युपलेभिरे । पर्युपास्तिर्भगवतां न कस्याऽप्यवकेशिनी ॥१६५॥ युग्मम् देशनोपरमे स्वामी देवच्छन्दमशिश्रियत् । सर्वा अपि परिषदः प्रायः स्वास्पदमैयरुः ॥१६६ अस्मिन् क्षणे समागत्य देवेनैकेन सादरम् । ऊचे मदनमञ्जूषा वन्दे त्वां श्राविकोत्तमे ॥१६७ तयाऽप्युत्थाय चक्रेऽस्या गोरखात् प्रतिवन्दनम् । सदाचारविधौ सन्तः प्रमाद्यन्ति क्वचिन्न हि ॥१६८ तदाऽशनिजवस्यासीद् गृहायोत्कः परिच्छदः । ततः स देवोऽवग् विद्याभृत्पते क्षणमास्यताम् ॥१६९ प्रतिश्रुतं खेचरेण सुरेणारम्भि भाषितुम् । सौम्ये मदनमञ्जूषे सावधानं निशम्यताम् ॥१७० भगिनी तेऽस्ति या लध्वी पुरुषद्वेषिणी किल, । सा प्राच्यजन्मपतिनाऽविवाह्यमरकेतुना ॥१७१ साऽऽख्यत् क्वासौ कथं वाऽस्या जन्मान्तरपतिः स च ।
किमर्थं च त्वं ब्रवीषि देवोऽवग् श्रूयतां शुभे ॥१७२ १६१.३. तंतुं. १६३.३. उपशकं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org