________________
२५०
Jain Education International
लीलावतीसारे
निरुञ्छयन्तं नु चलैः कोसुम्भैरिव पल्लवैः । प्रदक्षिणीकृत्य चैत्यपादपं पादपोत्तमम् ॥ १४६ तीर्थं नमस्कृत्य कृत्यमिवमावश्यकं किल । पूर्वसिंहासने पूर्वाभिमुखो न्यषदत् प्रभुः ॥ १४७॥ युग्मम् त्रिदिशि प्रतिरूपाणि रचयाञ्चक्रिरे सुरैः । प्रभोः सदृशि प्रभुवदवक्तृणि प्रभुवैभवात् ॥ १४८ ततो गणेन्द्रप्रमुखसाधवः स्वः पुरन्ध्रयः । साध्व्यश्च पूर्वद्वारैत्य प्रददुत्रिः प्रदक्षिणाम् ॥१४९ तीर्थं च तीर्थनार्थं च नत्वा सपुलकोत्करम् । दिशि दक्षिणपूर्वस्यामासामासुर्महर्षयः ॥ १५० तत्पृष्ठतोऽस्थुः स्वर्देव्य ऊर्ध्वास्तदनुसंयताः । प्रभुपूजार्थकमलमुकुलायितपाणयः
[ १४६-१५८
॥१५१
पूर्ववद् भवनपति ज्योतिष्कव्यन्तरस्त्रियः । अपाग्द्वाराऽऽगत्य तद्वत् ऋतेऽस्तु यथाक्रमम् ॥१५२ प्रत्यद्वारेण भवनेशज्योतिर्व्यन्तराऽमराः । प्राग्वत् प्रविश्य न्यषदन्न परोददिगन्तरे ॥ १५३ इन्द्रादिदेवा राजादिनरा नार्य उदग्दिशा । प्रदक्षिणय्येशं [प्राग्वन् ] नत्वैशान्यामुपाविशत् ॥ १५४ तिस्रस्तिस्रो दिशि दिशि बभूवुरिति पर्षदः । ताभिश्च शाखाभिखि बभौ कल्पद्रुमः प्रभुः ॥१५५ सर्वभाषानुकारिण्या विस्तारिण्या च योजनम् । सुधाविस्राविण्याऽथ वाण्या श्रीधर्मो धर्ममादिशत् ॥ १५६ भो भोः संसारसिन्धौ विधुरनिरवधौ मज्जनोन्मज्जनान
व्यातन्वद्भिर्भवद्भिः कथमपि नृजनुः प्रापि चिन्तामणीव । सम्यग्नीत्या तदाराधयत यदमुतः शुद्धसम्यक्त्वरत्ना
द्यासाद्यासादयध्वं तदपि शिवपदं यत्र निःसीमशर्म ॥ १५७ इतश्च सोऽशनिजवो ललनाभिः समं ललन् । उदीच्या गच्छतोऽपाच्यां विमानान् व्योम्न्युदैक्षत ॥ १५८
१४९.३. द्वारे°.
१५१.१. तत्पृष्ठेतो.
For Private & Personal Use Only
www.jainelibrary.org