________________
अकादश उत्साहः देवच्छन्दक ऐशान्यां रत्नरैवप्रमध्यतः । गृहेऽपवरक इव विश्रामाय कृतोऽहंतः ॥१३३ प्रतिवप्रं च चत्वारि चतुरस्रविमानवत् । द्वाराणि रेजिरे तत्र धर्मस्येव चतुर्भिदः ॥१३४ कल्पद्रुपल्लवैस्तत्र चक्रुर्वन्दनमालिकाः । दिग्वधूनां चतसृणामिव शोणाश्मकंबिकाः ॥१३५ प्रतिद्वारमराजन्त सध्वजा रत्नतोरणाः । सकीर्तयो भगवतः प्रतापा इव सर्वतः ॥१३६ तोरणान्युभयतश्च स्वर्णरत्नघटा बभुः ।। भव्येभ्यः सज्जिता धर्मनिधानकलशा इव ॥१३७ कानक्यो धूपघटिका धनधूमलतामुचः । द्वारेषूभयतो रेजुर्यववारकविभ्रमाः ॥१३८ वाप्यः स्वच्छपयःपूर्णास्तत्राभुर्विकचाम्बुजाः । स्वर्वाप्य इव तीर्थशं द्रष्टुमेयुः सुरैः सह ॥१३९ इत्यादिव्यन्तराश्चक्रुः सर्वेभ्यो धन्यमानिनः । सुस्वामिबहुकार्याप्तौ बहु हृष्यन्ति सेवकाः ॥१४० पौरस्त्यदेशनादेशात् तथैवस्थं सुरैः क्षणात् । आहृत्येवेति समवसरणं तत्र निर्ममे ॥१४१ ततश्च देवकोटीभिः परितः परिवारितः । सर्वथाऽदृष्टचरवद् दृश्यमानः पुनः पुनः ॥१४२ प्रभो चिरं जय स्वामिन् नन्द जीव चिरादिति । आशास्यमानः पुरतो मुहुनिर्जरचारणैः ॥१४३ . परिवंभ्रम्यमाणेषु भक्तितो नु प्रदक्षिणम् । नवसु स्वर्णपद्मेषु न्यस्यन्नहिसरोरुहम् ॥१४४ । पूर्वद्वारेण समवसरणं प्राविशत् प्रभुः । श्रीधर्मनाथतीर्थशः साक्षादिव महोदयः ॥१४५॥
चतुर्भिः कलापकम् Lila.-32
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org