SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २४८ [११९-१३२ लीलावतीसारे सिषिचुर्वसुधां गन्धाम्बुभिर्भक्तिभरैरिव । रजःशान्त्यै शरन्मेघा इव मेघकुमारकाः ॥११९ क्ष्मां बबन्धुः स्वर्णमणिरत्नाश्मभिरुदंशुभिः । व्यन्तरास्तत्र चक्रेशसौधे वर्धकिरत्नवत् ॥१२० जानुदघ्नीः सुमनसोऽधोवृन्ताः पञ्चवर्णिकाः । मुमुचुस्ते दिव्यवृष्ट्या सद्यः संपुष्पितेव भूः ॥१२१ रत्नस्वर्णमयानुच्चैस्तोरणांस्ते चतुर्दिशि । शालभजीध्वजच्छत्रमकरप्रवरान् व्यधुः ॥१२२ तदन्तरे च परितो रुप्रपाकार आदधे । भवनेशैर्वलयितप्रालेयाद्रिभ्रमप्रदः ॥१२३ तदूर्ध्व कपिशीर्षाणि कानकानि चकाशिरे । चामीकरारविन्दानि स्वःस्रवन्तीप्रवाहवत् ॥१२४ सकूटहिमवच्छीललीलो ज्योतिषिकैः कृतः । सुवर्णवरणो रत्नकपिशीर्षस्तदन्तरे ॥१२५ वैमानिकर्मणिकपिशीर्षश्चक्रे तदन्तरा । रत्नवप्रो रत्नगिरेरिव सारसमुच्चयः ॥१२६ तत्सर्वमध्येऽशोकारव्यश्चैत्यपादप उन्नतः ।। जम्बूवृक्षानुजन्मेव विचक्रे वानमन्तः ॥१२७ तन्मूले महदुच्चैश्च रत्नपीठं व्यधायि तैः । तस्यालवाललीलां यद् दधे कान्तितरङ्गितम् ॥१२८ तस्योपरि विचक्र तैः देवच्छन्दश्चतुर्मुखः । अनेकभङ्गिसुभगो वैमानिकविमानवत् ॥१२९ तदुत्सङ्गेषु चतुरो रत्नसिंहासनान् व्यधुः । सांहिपीठान् मेरुशैलशिलासिंहासनश्रियः ॥१३० तत्पुरश्चामरधरौ यक्षौ बभतुरुज्ज्वलौ । वहन्मन्दाकिनीस्रोतोहिमादिशिखरोपमौ ॥१३१ देवच्छन्दोपरि सितछत्रत्रयमराजत । मिलिताश्विनराधोज(?)राकेन्दुत्रितयोपमम् ॥१३२ १३१.३. श्रोतो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy