SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ .२४७ १०६-११८ ] अकादश उत्साहः ततः सर्वावरोधेन निर्विरोधेन भूषितः । स रेभे नन्दनोद्याने खचरेशः सुरेशवत् ॥१०६ इतश्च - रत्नपुरशिरोरत्नश्रीभानुपृथिवीभुजः तनयः काञ्चनच्छायः सुव्रताशुक्तिमौक्तिकम् ॥१०७ आजन्माऽपि चतुःषष्ट्या सुरेन्द्रः सेवितक्रमः । पञ्चचत्वारिंशिधनुस्तनुर्दम्भोलिलाञ्छनः ॥१०८ भुक्तापोज्झितसाम्राज्यः संयमश्रीपरिष्कृतः । अम्लानकेवलज्ञानादर्शसंक्रान्तविष्टपः ॥१०९ आकाशगेन छत्रेण पुण्येनेव विराजितः । चामराभ्यां यशःकीर्तिभ्यां त्वीदृग्भ्यां प्रवीजितः ॥११० देवदुन्दुभिनाऽऽकाशे शब्दाद्वैतं प्रदर्शयन् । सांहिपीठेनासने[न] . रत्नेनौजःश्रियाश्रितः ॥१११ धर्मचक्रेणान्तरारिघातचक्ररुचाऽग्रतः आईत्यसौधध्वजेनेन्द्रध्वजेन च शोभितः ॥११२ केवलश्रीदर्पणेन दिव्यभामण्डलेन च । . निधिष्विव नवस्वर्णकमलेषु पदौ दधत् ॥११३ नैकाभिर्देवकोटीभिः सम्यक्त्वैरिव देहिभिः । मूर्तिमभिर्नु चारित्रैः संयुतः संयुतायुतैः ॥११४ नमद्भिरभितो वृक्षः कृतपुण्यप्रवर्षणः । कीर्त्यमानयशोराशिश्चतुर्धाऽमरचारणैः ॥११५ पुण्यस्कन्ध इवाध्यक्षस्तीर्थ किल चराचरम् । तीर्थेश्वरः पञ्चदशः श्रीधर्मस्त्रिजगत्प्रभुः ॥११६ युगादिदेवादिजिनचतुष्कोत्पत्तिपावने । श्रीअयोध्यापुरे पुष्पकरण्डे समवासरत् ॥११७॥ __ एकादशभिः कुलकम् ततश्च समवसृते धात्री योजनमात्रिकीम् । मरुबहुकरैर्वायुकुमाराः क्षणतोऽमृजन् ॥११८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy