________________
२४६ लीलावतीसारे
[९४-१०५ ततो निरूपितं राज्ञा मुखं तस्यास्तनू भुवः । महाशनिजवः कोऽयं तयाऽप्रच्छि शनैः सखी ॥९४ सख्या प्रोचे प्रियसखि योऽसौ तत्र तदा त्वया । चिरं कटाक्षमालाभिः सर्वतोऽर्चित एष सः ॥९५ ततोमदनमञ्जूषा जोषमाजुष्य तस्थुषी । तातेन जगदे वत्से प्राप्तकालमिहास्तु किम् ॥९६ हर्षाश्रुप्लावितशा रोमाञ्चाञ्चितगात्रया । ऊचे पुत्र्या पित्रधीनाः पुन्यो न स्ववशाः पितः ॥९७ ततो ज्ञाततदाकूतस्तं दूतं प्रोक्तवान् नृपः । जवाद् गत्वाऽशनिजवं वदोद्वह जवादिमाम् ॥९८ दूतः सुदर्शनो गत्वा कार्यसिद्धि प्रभोर्जगौ । महर्या स च मदनमञ्जूषां तामुपायत ॥९९ ततस्तां सुन्दरानन्दा सुन्दरानन्दपत्तने । निनाय मेदुरामोदो महाशनिजवो जवात् ॥१०० अनिच्छन्ती स्फुरद्वर्यसौन्दर्यमपि खेचरम् । कौमारमेव मदनशलाका वहते परम् ॥१०१ स श्रीमहाशनिजवस्तया वल्लभया सह । रममाणो रतिसुखं नवस्मरकलामधात् ॥१०२ ततश्च - नानोद्यानसरोवापीसरिद्दिरिवणादिषु तत्रार्हत्समवसृतिश्रीसिद्धायतनादिषु
॥१०३ यात्राभिः सुपवित्राभिः पुण्यपुण्यव्ययार्जने ।
वितन्वन्तौ दम्पती तो दिनंदिनमतीयतुः ॥१०४॥ युग्मम् सन्मार्गस्थितिमातनोति नितरां यो निम्नगानां क्षणाद्
यो भित्ते घनबन्धनानि च दिशां सम्यग् दशानामपि । यश्चोच्चैः कमलाकरान् वितरितुं प्रोद्घाटयत्यञ्जसा
सोऽन्येद्युः प्रससार कोऽपि हि शरत्कालः क्षमापालवत् ॥१०५ १०४.४. दिनंदन. १०५.४. सरत्कालः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org