________________
२४५
८०-९३
अकादश उत्साहः सोऽवक् कमलवेगस्य विद्याधरपतेरियम् । श्रीकन्या सुभगंमन्या सुमुखी विमुखी नरात् ॥८० दध्यौ स मन्त्री मत्स्वामी यथाऽस्यां लोललोचनः । मत्स्वामिनि तथैषाऽपि ततोऽभूत् प्रियमेलकः ॥८१ अथ श्रीसिद्धायतने यात्रामासूब्य खेचराः । सर्वं स्वां स्वां पुरी जग्मुः शिवपुयीं तु योग्यताम् ॥८२ महाशनिजवः सैष मन्दमन्दगतिर्ययौ । स्वपुरं सुन्दरानन्दं तन्मनस्तु तया सह ॥८३ तत्सङ्गमोत्सवोपायशतचिन्तान सृजन् । श्रीमान् महाशनिजवस्तेन व्यज्ञपि मन्त्रिणा ॥८४ देवस्य हृद्गर्भगृहे या विवेश बलादपि । सा श्रीकमलवेगस्य कन्या विद्याधरेशितुः ॥८५ महाकुलं कलास्थानं युवानमपि खेचरम् । मन्यते स्वगुणाहंयुश्चञ्चासध्यञ्चमेव सा ॥८६ प्रभुं तु सा तदा ताग्दृग्विलाससरोरुहैः । वपुष्मन्तं स्मरमिव पूजयामास सत्वरम् ॥८७ ततोऽभिरुचितस्तस्याः स्वाम्यवश्यं न संशयः । तादृशामीदृशा भावा मनोभाव विना न हि ॥८८ सुधीः सुदर्शनः सैष तत् तस्या वरकोऽधुना । श्रीकमलवेगपार्श्व प्रेष्यते सा यदीप्यते ॥८९ पितृपार्श्व परं तस्यां समेयुष्यां शुभक्षणे ।। उदीर्य सर्वथा कार्यमित्यादेश्यः सुदर्शनः ॥९० महाशनिजवेनाथ शिक्षां दत्वा सुदर्शनः । प्रहितस्तत्र तत्कार्यसाधने प्रहितः स हि ॥९१ सत्र प्राप्तेन मदनमञ्जूषाध्यक्षमीरितम् ।। श्रीकमलवेगराजन् महाशनिजवो नृपः ॥९२ इमां मदनमञ्जूषां मञ्जूषां गुणसम्पदाम् ।
भवन्तं याचते तावद् देवो जानात्यतः परम् ॥९३॥ युग्मम् ८१.२. लोलुललोचनः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org