SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २४४ लीलावतीसारे [६८-७९ भन्ये तत्साधु साधूक्तमित्युपबृह्य ताः समाः । स्वस्ववेश्मसु गत्वा च स्नात्वा भुक्त्वा विलिप्य च ॥६८ निवस्य देवदूष्याणि जग्मुः सङ्केतितास्पदम् । स्मृत्वा विद्यां समुत्पेतुः सिद्धचैत्यं ययुश्च ताः ॥६९॥ युग्मम् तत्र चानादिनिधनं सर्वश्रेयोनिबन्धनम् । जिनेन्द्रबिम्बं विधिना नमस्यामासुराशु ताः ॥७० ततो विद्याधरीदेवीकिन्नरीणां विमध्यतः । ता नमस्कृत्य मदनमञ्जूषाद्याः समासत ॥७१ महाशनिजवः पूर्व प्राप्तो विद्याधरेश्वरः ।। तत्रापश्यत् तां मदनमञ्जूषां स्मरशेवधिम् ॥७२ जिघक्षुरिव तां ज्ञात्वा मदनेन रुषा शरैः ।। विद्धो महाशनिजवः सद्यश्चिन्तातुरोऽजनि ॥७३ तथा हि - कस्यैषाभिनवस्य पङ्कजभुवो लोकोत्तरा निर्मितिः किञ्चोच्चैविमलं कुलं तिलकयत्येषाऽद्भुतालकृतिः । अस्यैषा पुरुषोत्तमस्य हृदये संधास्यते श्रीश्रियं किं वाऽन्यैर्मम नेत्रपत्रपुटयोरेषा सुधां वर्षति ॥७४॥ स्त्रीरत्नं तदियं यस्य गृहे खेचरचक्रयसौ । यथातथेयं तद्ग्राह्या प्रतिमल्लोऽत्र को मम ॥७५ यद्वा मेऽक्ष्णा चञ्चलेन मनो मुग्धं विमोहितम् । तदिमे बोधयित्वाशु सुपथे स्थापयाम्यहम् ॥७६ हे मनश्चक्षुषी तीर्थे युवां यात्रार्थमागते ।। तन्निषिद्धं किमारब्धं धिग् धिग वामिति चापलम् ॥७७ इत्यनुशिष्यमाणे ते बलात् तामेव जग्मुषी । मनःस्पृशा दृशा तस्याः परिरब्धे मुदा चिरम् ॥७८ तयोस्तागविलासं मन्त्री वरमतिर्विदन् । पप्रच्छ कञ्चन सखे केयं कमललोचना ॥७९ ७१.४. समासतः . ७६.१. अक्ष्णां. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy